Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 319
________________ श्रमणेन श्रीआचार्यमिश्र १ द्वि० श्रीउपाध्यायमिश्र २ तृती. भट्टारकवर्तमान अमुकसूरि ३ चतुर्य० सर्वसाधुवन्दना ४ |पश्चात् भून्यस्तमस्तको मुखवस्त्रिकां मुखे दत्त्वा करद्वयं योजयित्वा "सबस्सवि देवसिअ" इत्यादि पठति, परं इच्छाकारेण संदिसहेति पदं न पठति, इदं च सकलातिचारबीजकभूतं अन्यत्रापि च ग्रन्थादौ बीजकस्य दर्शनात् 'जय जंतु कप्पपायवे' इत्यादाविव, अत्राऽवसरे श्राद्धस्तु साधुरिव पूर्ववत् क्षमाश्रमणचतुष्टयेन श्रीआचार्यादीन् वन्दित्वा इच्छकारि8 समस्तश्रावका वांदु इति भणति, श्रीहेतुगर्भ इत्थमेव भणनात् । अत्राऽऽह शिष्यः, ननु-प्रतिक्रमणप्रारम्भ प्रथमं कथं श्रीआचार्यादि वन्दनं विहितं ? उच्यते-प्रधानादि स्थानीयानां श्रीआचार्यादीनां बहुमाननेन स्वसमीहितसिद्धिर्भवतीति हेतोः यदुक्तं श्रीहेतुगर्भ लोकेऽपि हि-राज्ञः प्रधानादीनां च बहुमाननादिना स्वसमीहितकार्यसिद्धिर्भवति । अत्र राजस्थानीयः तीर्थङ्कराः प्रधानादिस्थानीयाः श्रीआचार्यादय इति, तत उत्थाय द्रव्यतो वपुषा भावतश्च शुद्धपरिणामेन चारित्राचारविशुद्ध्यर्थ “करेमि भंते सामाइयं" इत्यादि सूत्रं पठित्वा प्रलम्बितभुजः कूर्परधृतनाभ्यधोवर्ति जानूलचतुरङ्गुलस्थापितकटिपट्टः “संजय खलिणे य वायस कवितॄत्यादि" १९दोषरहितं कायोत्सर्ग कुर्यात् । यदुक्तं हेतुगर्भे-सामाइअपुषमिच्छामि काउस्सग्गमिच्चाइ सुत्तं भणिअ पलंबिअभुअ कुप्परधरिअ परिहणओ॥१॥ इत्यस्मिन् कायोत्सर्गे च प्रातस्तत प्रतिलेखनायाःप्रभृति दिवसातिचारान् चिन्तयति, मनसा प्रधारयेच्च "सयणासण्णपाने" त्यादिगाथां अचिन्तयत श्राद्धस्तु |आजुका चउप्रहर दिवसमांहि जिके जीव विराध्या हुवई" इत्यादि अतिचारान् श्रीतरुणप्रभसूरिलिखितान् चिन्तयति । तदनागमने गच्छप्रवृत्त्या अष्टौ नमस्कारांश्चिन्तयति, एतदतिचारचिन्तनं मनसा संकथनं च श्रीगुरुसमक्षमालोचनार्थ Jain Education Intema 317 Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398