Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचा
रीशत
कम् ।
॥ १६१ ॥
Jain Education Inter
यैस्तु प्रतिक्रमणप्रान्ते क्रियते, तथा श्रीजिनवल्लभसूरिणा प्रतिक्रमणसामाचार्या श्रीजिनप्रभसूरिणा च विधिप्रपायां दैवसिकप्रतिक्रमणं दैव सिकप्रायश्चित्त कायोत्सर्गपर्यन्तमेव लिखितं, तदानीं तत्प्रमाणस्य एव करणात् । अथ श्रीतरुणप्रभसूरिकृतषडावश्यक बालावबोधे प्रान्ततोऽग्रेतनः प्रतिक्रमणानुक्रमेण अनुक्रमो लिख्यते, तथाहि - ततो गीतार्थाऽऽचा|रणावशेन " इच्छाकारेण संदिसह भगवन् खुद्दोवद्दवओहडावणत्थं करेमि काउस्सग्गं अन्नत्थूसस्सिएणं” इत्यादि भणित्वा कायोत्सर्ग करोति, तत्र चतुर्विंशतिस्तवचतुष्टयचिन्तनं पारिते चैकं चतुर्विंशतिस्तवं पठेत्, ततो जानुभ्यां स्थित्वा साधुः पौषधकः श्रावकश्च "सज्झायं संदिस्सावेमि सज्झायं करेमि " इति भणित्वा नमस्काराणां त्रयं पञ्चकं वा कथयेत् । ततः श्रीपार्श्वनाथसंबन्धि स्तोत्रं कथयेत्, ततः शक्रस्तवः “जावंति वेइआई” इत्यादि भणित्वा क्षमाश्रमणदानपूर्व 'जावंत केवि साहू नमोऽर्हत् सिद्धेत्यादिकथनपूर्वकं श्रीपार्श्वनाथ लघुस्तवनं भणित्वा जयवीरायेति पठति, ततो भूतलन्यस्त मस्त को मुखे मुखवस्त्रिकां दत्त्वा " सिरि- थंभणयट्ठियपास सामिणो" इत्यादि गाथायुगलं 'वंदणवत्तिआए' इत्याद्युक्तिपूर्व कायोत्सर्ग कुर्यात्, तन्मध्ये चतुर्विंशतिस्तवचतुष्टय चिन्तनं पारिते चैकश्चतुर्विंशतिस्तवः । ततः क्षमाश्रमणदानेन "भट्टारकश्रीजिनदत्तसूरि-आराधनानिमित्तं करेमि काउस्सगं" इत्याद्युक्तिपूर्व चतुर्विंशतिस्तवचतुष्टयकायोत्सर्ग करोति, पारिते चैकं, अस्मिन् दैवसिकप्रतिक्रमणं विना पदस्थसाधु सर्वैरेकीभूय प्रतिक्रमणं स्थापनीयं । अथ कदापि कोऽपि श्राद्धादिः पश्चादापतति, तदा न शुद्ध्यति तस्य तैः समं प्रतिक्रमणकरणं किंतु स तेभ्यः पृथग् भूत्वा करोति, प्रतिक्रमणं अथ | मुख्यसाधुर्यदि वाचनाचार्यादिपदस्थो भवति, तदा आप्रतिक्रमणसूत्रं यावत् पश्चादप्यापतति । अथ केनाऽपि उत्सूरता
For Private & Personal Use Only
श्रावक-प्रतिक्रमण
विधिर
घिकारः
८४
॥ १६१ ॥
www.jainelibrary.org

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398