________________
श्रीचन्द्राचार्यैरपि स्वकृतयोगविधौ सम्यक्त्वारोपणानन्तरं श्रावकवर्जनीयद्वाविंशत्यभक्ष्यप्रतिपादकं गाथाद्वयं प्रत्यपादि, तथाहि “पंचुंबर चउविगई, अनायफल कुसुमहीमविसकरमे । मजं राईभोयण, घोलवडा रीगणी चेव ॥१॥ पंपोटय संघाडय, वायंगण काईवणे य तह चेव । बावीसं दवाणि, अभक्खणीयानि सड्डाणं ॥२॥” एवं श्रीजिनपतिसूरिशिष्य-श्रीपूर्णभद्रकृते श्रीकृतपुण्यकचरित्रेऽपि शृङ्गाटकानामभक्ष्यत्वं, तथाहि-"मद्यं १ मांसं २ नवनीतं ३, मधू ४ दुम्बरपञ्चकम् ९ । अनन्तकाय १० मज्ञात-फलं ११ रात्रौ च भोजनम् १२ ॥१॥ आमगोरससंपृक्तं, द्विदलं १३ पुष्पितौद-18
नम् १४ । दध्यहर्द्वितयातीतं १५, सन्धानं १६ कुथितान्नकम् १७ ॥२॥ बहुवीजं यच्च फलं १८, शृंगाटकान् १९ सर्व* मृत्तिका २० करकान् २१ । हिम २२ विष २३ वृन्ताकीफल २४, घोलवटान् २५ वर्जयेत् शश्वत् ॥३॥" अत्राऽयं पर
मार्थः-श्रीप्रवचनसारोद्धारादौ शृंगाटकानि द्वाविंशत्यभक्ष्यमध्ये नाऽऽनीतानि, परं श्रीचन्द्रसूरिकृत-योगविधिग्रन्थे, श्रीपूर्णभद्रकृत-श्रीकृतपुण्यकचरित्रे च प्रोक्तत्वात् १ मोहोदयकारित्वात् २ जीवद्वययुक्तत्वात् ३ विकटमांसतुल्यत्वेन गणितत्वात् ४ धर्मार्थिनां श्राद्धादीनां अभक्ष्याणि अग्राह्याणि ज्ञेयानि ॥५४॥
॥ इति शृङ्गाटकानामभक्ष्यत्वाधिकारः॥५४॥ ननु-लवण १ हरिताल २ मनःशिला ३ पीप्पली४ खजूर ५ द्राक्षा ६ हरीतकी ७ पत्र ८ पुष्प ९ फल १० प्रभृतीनां प्रासुकत्वं भवति न वा ?, उच्यते-भवति, कथमित्याह-श्रीबृहत्कल्पसूत्रवृत्तिषु योजनशतागमनादिकारणैः तेषाम
BURSASPORLARI
lain Educatan inte
For 257nal Use Only
LATrainelibrary.org