SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीचन्द्राचार्यैरपि स्वकृतयोगविधौ सम्यक्त्वारोपणानन्तरं श्रावकवर्जनीयद्वाविंशत्यभक्ष्यप्रतिपादकं गाथाद्वयं प्रत्यपादि, तथाहि “पंचुंबर चउविगई, अनायफल कुसुमहीमविसकरमे । मजं राईभोयण, घोलवडा रीगणी चेव ॥१॥ पंपोटय संघाडय, वायंगण काईवणे य तह चेव । बावीसं दवाणि, अभक्खणीयानि सड्डाणं ॥२॥” एवं श्रीजिनपतिसूरिशिष्य-श्रीपूर्णभद्रकृते श्रीकृतपुण्यकचरित्रेऽपि शृङ्गाटकानामभक्ष्यत्वं, तथाहि-"मद्यं १ मांसं २ नवनीतं ३, मधू ४ दुम्बरपञ्चकम् ९ । अनन्तकाय १० मज्ञात-फलं ११ रात्रौ च भोजनम् १२ ॥१॥ आमगोरससंपृक्तं, द्विदलं १३ पुष्पितौद-18 नम् १४ । दध्यहर्द्वितयातीतं १५, सन्धानं १६ कुथितान्नकम् १७ ॥२॥ बहुवीजं यच्च फलं १८, शृंगाटकान् १९ सर्व* मृत्तिका २० करकान् २१ । हिम २२ विष २३ वृन्ताकीफल २४, घोलवटान् २५ वर्जयेत् शश्वत् ॥३॥" अत्राऽयं पर मार्थः-श्रीप्रवचनसारोद्धारादौ शृंगाटकानि द्वाविंशत्यभक्ष्यमध्ये नाऽऽनीतानि, परं श्रीचन्द्रसूरिकृत-योगविधिग्रन्थे, श्रीपूर्णभद्रकृत-श्रीकृतपुण्यकचरित्रे च प्रोक्तत्वात् १ मोहोदयकारित्वात् २ जीवद्वययुक्तत्वात् ३ विकटमांसतुल्यत्वेन गणितत्वात् ४ धर्मार्थिनां श्राद्धादीनां अभक्ष्याणि अग्राह्याणि ज्ञेयानि ॥५४॥ ॥ इति शृङ्गाटकानामभक्ष्यत्वाधिकारः॥५४॥ ननु-लवण १ हरिताल २ मनःशिला ३ पीप्पली४ खजूर ५ द्राक्षा ६ हरीतकी ७ पत्र ८ पुष्प ९ फल १० प्रभृतीनां प्रासुकत्वं भवति न वा ?, उच्यते-भवति, कथमित्याह-श्रीबृहत्कल्पसूत्रवृत्तिषु योजनशतागमनादिकारणैः तेषाम BURSASPORLARI lain Educatan inte For 257nal Use Only LATrainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy