Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal

View full book text
Previous | Next

Page 25
________________ रेवती - दान - समालोचना दुःखातिरेके किं जातम् ? मानसिकं दुःखमाश्वासकाम वे प्रतिक्षणं वंद्धमानं सदश्रुरूपं हृदयाद्बहिर्निःसरति तदेवाह - १० मालुयाकच्छकं गत्वा, रुरोदार्त्तस्वरेण सः । मृते नाथेऽपवादेन, हा ! हा !! धर्मस्य हीनता ॥ ६॥ रुरोदेति - यद्यपि महता महता शब्देनार्त्तस्वरेण रोदन - मार्त्तध्यानेऽन्तर्भवेत्तथाप्यत्र तस्य धर्मप्रशस्त रागजन्यत्वाद् गुरुभक्तिपरिणामपरिणतत्वान्नार्त्तध्यानत्वं । तस्य तु केवलमियमेव चिन्ता यन्महावीरस्वामिनः षण्मासीमध्ये यद्यवसानं भवेत्तर्हि परतैर्थिकाः किं कथयिष्यन्ति । तेऽवश्यं शासनमालिन्यं करिष्यन्ति वदि-व्यन्ति च यन्महावीरश्छद्मस्थ एवं मृत इत्येतद्भविष्यद्धर्महीनताजन्यमेव तद्रोदनमिति । तदुक्तम् - " जेणेव मालुयाकच्छए तेणेव उवा० २ मालुयाकच्छं तो ऋणुपविस्सइ २ मालुया० २ महया महया सद्देणं कुहुकुहुस्स परुन्ने” – (भग० १५; १, पृ० ६८६ ) ।। ६ ॥ - शिष्यसमाश्वसनम् । 1 वीरेण प्रेषितास्सन्तः सिंहमाहयितुं द्रुतम् । श्रागतं काननादेनं, वीर इत्थं समाश्वसत् ॥ ७ ॥ वीरेणेति — मणिरत्नमालायां “शिष्यस्तु को यो गुरुभक्त एव, गुरुस्तु को यश्च हितोपदेष्टा" इति शिष्यगुरुलक्षणमुक्तं तत्सत्यमेव । शिष्यरोदनं महावीरेण ज्ञातम् । झटित्येव श्रमणान् संबोध्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112