Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal
View full book text
________________
४४
रेवती-दान-समालोचना
कोऽभिप्रायो विद्यते, स तु पूर्वापरपर्यालोचनेन ज्ञातुं शक्यते । पूर्वपक्षस्य कियानादरः कृतः ? उत्तरपक्षस्य च तावानेवादरो वाऽधिकादरः ? । पूर्वपक्षस्य कियदालोचनपूर्वकार्थावधारणं दर्शितमुत्तरपक्षस्य च कियदिति सूक्ष्मरीत्या पर्यालोचने कृते त्ववश्यमेव तदाशयपरिज्ञानं स्यादेवेति ।।२०।।
पूर्वोत्तरपक्षयोः किं न्यूनाधिक्यं तद्दर्शयति
निर्हेतुकश्च संक्षिप्तः पूर्वपक्षो न चादृतः । द्वितीयो विस्तृतः स्पष्टमुत्तरपक्षलक्षणः ॥३१॥
निर्हेतुक इतिः-श्रूयमाणमेवार्थ केचिन्मन्यन्ते इत्येकवाक्यमात्रेणैव पूर्वपक्ष उपन्यस्तः । नात्र कश्चिद्धेतुर्दशितः । न वा साधकबाधकप्रमाणानि । न वा परामर्शः । संक्षेपेणैव तन्मतो पदर्शनं कृतम् । श्रयमाणमेवार्थ मन्यन्ते इति वाक्यमपि तत्पक्षस्य पर्यालोचनशून्यत्वं दर्शयति । कुतः ? सर्वत्र शब्द एव श्रूयमाणो भवति नत्वर्थः । शब्दश्रवणानन्तरमीहा-पर्यालोचना भवति ततोऽवायोऽर्थावधारणं भवतीति मतिज्ञानस्यायं सामान्यनियमः। अत्र त्वर्थत्य श्रयमाणत्वमुक्तं तत्कथं घटते । शब्दार्थयोः कथञ्चिदभेदाश्रयत्वेन शब्दवदर्थस्य श्रयमाणत्वे स्वीकृते तत्रेहा-पर्यालोचना व्यापारो न प्रतीयेत । तथा चात्र मांसार्थो घटते वा न घटते शास्त्रान्तरे तद्वाधकप्रमाणानां सद्भावेन बाध्यतेऽत्र मांसाओं नवेति पर्यालोचनाविरहेण न यथार्थावायस्तत्र संभवति । शब्दवदर्थः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112