Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal

View full book text
Previous | Next

Page 95
________________ ८० रेवती-दान-समालोचना rva criminaruwaonm गतदिननिष्पादितः । तस्या रेवतीगृहिण्या गृहे विद्यत इति शेषः । तं-बीजपूरकगर्भम् । आनय-त्वमिति शेषः ततः-प्रथमघाक्यान्तरं द्वितीयवाक्येन वीर जिनः सिंहं प्रति इत्यवक-इत्थमवददिति--"अस्थि से अन्ने पारियासिए मज्जारकडए कुक्कुड मंसए तमाहराहि" भग० १५; १, पृ० ६८७ इत्येनद् द्वितीयवाक्यस्यायं समुदायार्थ इति ।। ५१ ॥ दोषनिराकरणमाहअस्मिन्नर्थे न काप्यस्त्य-नुपपत्तिर्न दुषणम् । न चागमाविरोधोऽपि, सर्व संगच्छते ततः ॥ ५२ ।। अस्मिन्निति-मांसार्थे 'दुवे सरीरकडए' इत्येतेषां त्रयाणां शब्दानामन्वययोग्यतानुपपत्तिः नरकादिगतिप्राप्तिः स्वर्गाद्यप्राप्तिश्च दूषणं मांसाहारनिषेधकानामागमवाक्यानां विरोधश्च । इत्येवं ये ये दोषा मांसार्थे संभवन्ति तन्मध्यांद्वनस्पत्यर्थे नैकोपि दोषः संभवति । ततस्तदर्थे सर्व संगच्छते सर्वथापि संगतिरस्ति । न, मनागप्यसंगतिरनुपपत्तिर्वास्तीत भावः ।। ५२ ।। उपसंहारः-- मांसार्थपरिहारेण, वनस्पत्यर्थसाधनात् । रेवतीदत्तदानस्य, पूर्णशुद्धिर्विनिश्चिता ॥ ५३॥ मांसार्थपरिहारेणेति-रेवतीदत्तदाने याथातथ्यं परोक्षितुं प्रारब्धेऽस्मिन्निबन्धे पूर्वापरसम्बन्धपूर्वकं शब्दार्थपर्यालोचनायो क्रियमाणायां मांसार्थनिराकरणेन वनस्पत्यर्थसाधनेन च रेवतीदत्तदानं नाशुद्धं किन्तु पूर्णशुद्धमिति सप्रमाणं निश्चितमिति ॥५३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112