Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal

View full book text
Previous | Next

Page 81
________________ रेवती-दान-समालोचना रक्तचित्रकाभिधे क्षुपे-जघुवृक्ष पोक्तः-कथितः । तथाहि"मार्जार:-पुं, रक्तचित्रकक्षुपे. रा. नि. व. ६ । पूतिसारिकायाम् । वै. निघ. । बिडाले, अम. । खट्टाशे. हे. च. (कः) मयूरे त्रिका ॥" पृ. ७४७. "रक्तचित्रक-पुं. ( Plumbago rosea or coecinea. syn. P. rosea ) रक्तवर्णदण्डपत्रचित्रकक्षुपे। गुणाः-स्थौल्यकरः रुच्यः कुष्ठध्नः रसनियामकः लौहवेधकः रसायनः चित्रकान्तराद्गुणाढ्यश्च । रा. नि. व. ६ ।” पृ. ७८९. प्रकृते-प्रकृतप्रसङ्गे रक्तातिसारपित्तज्वर दाहरोगप्रसङ्गे । तस्य-रक्ताचत्रकापस्य । उपयोगित्वं-उअयोगः । नास्ति-न विद्यते। कुतो नेत्याह-पातिकूल्यतः रोगप्रकृतेः प्रतिलोमत्वाद्रोगत्योष्णस्वभावत्वादस्याप्युग्णस्वभावत्वात् ।। ४३ ॥ कडएशब्दार्थःकडए इति शब्दस्तु, संस्कृतभावितार्थकः । बह्वर्थत्वेन धातूनां, वृत्तिकारेण दर्शितः॥४४॥ कडए इति-कडए इत्यस्य कृतक इति छाया। कृत एव कृतकः । स्वार्थे क प्रत्ययः । टीकाकारेणैव कृतशब्दस्य संस्कृतं भावितमित्यर्थद्वयं निरुक्तम् । करणार्थक-कृधातोः संस्कारभावनार्थकत्वं कथं स्यादित्यत आह वहथत्वेनेति-धातू. नामनेकार्थत्वादिति व्याकरणशास्त्रे प्रसिद्धम् ॥ ४४ ॥ कुक्कुडशब्दार्थ:कुक्कुटः सुनिषण्णाख्ये, शाके शाल्मलिपादपे । कुक्कुटी मातुलुङ्गऽपि, मधुकुक्कुटिका तथा ॥ ४५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112