Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal
View full book text
________________
रेवती-दान-समालोचना
तु शब्दः । अत:---अस्मात्कारणात् तदाश्रयः-मातुलुङ्गरूपतृतीयार्थस्यैवाश्रयः कृतो द्वावौँ विहाय तृतीयोऽर्थः समादृतः प्रकरणानुरोधेनेतिभावः ॥ ४५ । ४६ । ४७ ॥ मांसशब्दार्थो निरूप्योमासशब्दस्य शक्तिस्तु, पिण्डीभूते रसे मता। फलगर्भोऽपि तद्रूपो, दृश्यते प्राणिमांसवत् ॥४८॥ त्वङ्मांसकेसराणां च, लक्षणानि पृथक पृथक् । वाग्भटे वैद्यके ग्रन्थे, दर्शितानि गुणैः सह ॥४६॥
मांसशब्दस्येतिः—'कुक्कुडमंसए' इत्यत्र 'मंसए' इति शब्दस्य छाया मांसकमिति पुल्लिंगस्तु प्राकृतत्वात् । कप्रत्ययः स्वार्थिकः । मांसशब्दस्य पिण्डीभूते रसे रसपिण्डे रक्तजतृतीयधातौ वा शक्तिः प्राणिशरीरे यथा रसपिण्डीभावो भवति तथा वृक्षफलादावपि रसपिण्डीभावो भवत्येवात आह तद्रूपः रसपिण्डरूपः । प्राणिमांसफलगर्भयोः क्वचिदर्णेनापि सादृश्यं दृश्यते । ततो मांसशब्देन फलगर्भोऽपि गृह्यते । तदुक्तं प्रज्ञापनायाम्-"बेटं मंसकडाहं एयाई हवंति एगजीवस्स । वृन्तं समंसकटाहं ति । स मांसं सगिरं तथा कटाहं एतानि त्रीण्येकस्य जीवस्य भवन्ति एकजीवात्मकान्येतानि त्रीणि भवन्तीत्यर्थः । ( पन्नवणा. बाबु. पद. १ पृ. ४०)॥" एवं वाग्भटे (सू. स्था. अ. ६. श्लोक १२९--१३१)मातुलुङ्गस्य त्वङ्मासकेसराणां पृथगुपयोगदर्शनात् पृथगेव गुणानाहत्वक्तिककटुका स्निग्धा मातुलुंगस्य वाताजत् ।
बृंहणं मधुरं मांसं वातपित्तहर गुरु । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112