Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal

View full book text
Previous | Next

Page 89
________________ ७४ रेवती-दान-समालोचना uvurov : त्वक्तिक्ता दुर्जरा तस्य, वातकृमिकफापहा । स्वादु शीतं गुरु स्निग्ध, मांसमारुतपित्तजित ॥ ननु कुक्कुटीशब्दस्य मातुलुङ्गार्थकत्वेऽपि कुक्कुटशब्दस्य तु तन्न सिद्धमिति चेदा हवृत्तिकाराशयादिति-कोषं बिनाऽऽप्तवाक्यदितोऽपि शक्तिग्रहो भवतीति । दर्शितमेव कुक्कुडशब्देन मातुलुङ्गापरनामबीजपूरकार्थबोध एव वृत्तिकारस्याशयः । तद्यथा 'कुक्कुटमांसक' बीजपूरकम् । ( भग० आगमो० समिति ६९१ पृष्ठे) तथा च तदभिप्रायेण कुक्कुटोऽपि कुक्कुटशब्दोऽपि तस्मिन् मातुलुङ्गार्थे प्रवर्तते शक्त्यैव बोधजनको भवतीत्यर्थः । एवं च 'कुक्कुड' शब्देन त्रिषु बनस्पत्यर्थेषूपस्थितेष्वपि विशेषणात्र कस्योपयोग इति दर्शयति । स्वस्तिकस्येति सुनिषण्णकापरपर्यायशितिवारशाकस्य दाहज्वरहारित्वेनात्रप्रसंगे । उपयोगेऽपि--- उपयुक्तत्वेऽपि मांसशब्दो निरर्थकोऽर्थ शून्यत्वेनानुपपन्नः स्यादिति शेषः फलगर्भस्यैवात्र मांसत्वेन स्वस्तिकस्य तादृशफलवत्त्वाभावात् । शाल्मले:-खनामख्यातमहातरोः फलवत्त्वेऽपि मांसविशिष्टफलसद्भावेऽपि । अत्र-अम्मिन्प्रकरणे तस्य-शाल्मलिफलस्य नोपयुक्तता-नोपयोगो भवति पित्तदाहाद्यनिवारकत्वात् ।। मातुलुङ्तु-बीजपूरकफले मांसात्मक-गर्भसद्भावात्तस्य च पित्तादिदोषनिवारकत्वेन दर्शितत्वात् । सर्वथा-सर्व प्रकारेण सार्थक्यं साफल्यम् । पूर्वोक्तप्रकाराभ्यामस्य विशेषतोपदर्शनार्थ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112