Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal
View full book text
________________
रेवती-दान-समालोचना
-
कृष्णकापोतीलक्षणम् - "सक्षीरां रोमशां मृद्दी, रसेनेचुरसोपमाम् । एवं रूपरसाञ्चापि, कृष्णकापोतिमादिशेत् ॥" ८२४-८२५ पृष्ठे तदुत्पत्तिस्थानम्
"कौशिकी सरितं तीवा, सञ्जयन्त्यास्तु पूर्वतः । क्षितिप्रदेशो वल्मकि- राचितो योजनत्रयम् । विज्ञेया तत्र कापोती श्वेता वल्मीकमूर्धसु ॥
कापोतीशब्दः श्वेतकापोतीकृष्णकापोतीसाधारणो वर्तते । सामान्यशब्देनोभयमपि ग्रहीतुं शक्यते ॥ ३८ ॥ शरीरशब्दस्य किं प्रयोजनमित्याह
शरीरव्यवहारस्तु वृतादावपि विद्यते । तस्याप्यौदारिकायंगत्रयमुक्तं जिनेश्वरैः ॥ ३६॥
शरीरव्यवहार इति-ननु 'दुवे कावोइअो उवक्खडियाश्रो' इत्येवास्तु किं शरीरशब्देनेति चेन्न 'सरीर' इति पाठदर्शनादस्त्येव तस्योपयोगः शरीरशब्दसाहचर्यादेव 'कावोई' इति शब्दस्य वनस्पत्यर्थकत्वं विशेषतः सिद्धयति, कुतः ? कापोतीवनस्पतेर्मूलपत्रसहिताया एवोपयोगो दर्शितः सुश्रुते । समग्रस्योपयोगादेवात्र शरीरशब्दः प्रयुक्तः। पक्षिवाचकत्वे तु तदसंगतिः पूर्व दर्शितैव । वनस्पति शरीरे तु द्वित्वमपि संभवतीति सवै संगतम् । ननु वनस्पतेः शरीरत्वाभिधाने किं शास्त्रीय प्रमोणमिति चेदस्त्येव ।
सूत्रे जिनेश्वरैवनस्पतिमात्रस्यौदारिकादिशरोरत्रयमस्तीत्युक्तत्वात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112