SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ रेवती-दान-समालोचना - कृष्णकापोतीलक्षणम् - "सक्षीरां रोमशां मृद्दी, रसेनेचुरसोपमाम् । एवं रूपरसाञ्चापि, कृष्णकापोतिमादिशेत् ॥" ८२४-८२५ पृष्ठे तदुत्पत्तिस्थानम् "कौशिकी सरितं तीवा, सञ्जयन्त्यास्तु पूर्वतः । क्षितिप्रदेशो वल्मकि- राचितो योजनत्रयम् । विज्ञेया तत्र कापोती श्वेता वल्मीकमूर्धसु ॥ कापोतीशब्दः श्वेतकापोतीकृष्णकापोतीसाधारणो वर्तते । सामान्यशब्देनोभयमपि ग्रहीतुं शक्यते ॥ ३८ ॥ शरीरशब्दस्य किं प्रयोजनमित्याह शरीरव्यवहारस्तु वृतादावपि विद्यते । तस्याप्यौदारिकायंगत्रयमुक्तं जिनेश्वरैः ॥ ३६॥ शरीरव्यवहार इति-ननु 'दुवे कावोइअो उवक्खडियाश्रो' इत्येवास्तु किं शरीरशब्देनेति चेन्न 'सरीर' इति पाठदर्शनादस्त्येव तस्योपयोगः शरीरशब्दसाहचर्यादेव 'कावोई' इति शब्दस्य वनस्पत्यर्थकत्वं विशेषतः सिद्धयति, कुतः ? कापोतीवनस्पतेर्मूलपत्रसहिताया एवोपयोगो दर्शितः सुश्रुते । समग्रस्योपयोगादेवात्र शरीरशब्दः प्रयुक्तः। पक्षिवाचकत्वे तु तदसंगतिः पूर्व दर्शितैव । वनस्पति शरीरे तु द्वित्वमपि संभवतीति सवै संगतम् । ननु वनस्पतेः शरीरत्वाभिधाने किं शास्त्रीय प्रमोणमिति चेदस्त्येव । सूत्रे जिनेश्वरैवनस्पतिमात्रस्यौदारिकादिशरोरत्रयमस्तीत्युक्तत्वात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy