Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal

View full book text
Previous | Next

Page 69
________________ रेवती-दान-समालोचना mmmmmmmmmmmmmmmmmmmmmmmmmwwwwwwwwwwwwwwwwwrrrrrrrrrrrrrrr त्वेन श्रतिमागतः-श्रवणपथं प्राप्तः। लेखनप्रवृत्तिस्तु महावीरस्वामिनिर्वाणसमयादशीत्यधिकनवशतवर्षेषु व्यतीतेषु जाता। ततः पूर्व पश्चादपि चानेके शब्दाः पाठान्तरतां गता दृश्यन्त तद्वदयमपि कावोईशब्दः कवोयत्वेन परिणतः स्यादित्यत्र नास्त्याश्चर्यम् । कथमित्याह स्थानसाम्याद्-ईकारस्य यकारस्य च तालुस्थानवत्त्वेन आकारस्याकारस्य च कण्ठस्थानवत्त्वेन साम्यादाकारस्याकारत्वेन, ईकारस्य च यकारत्वेन श्रुतिसंभवः अथवा लेखकानां प्रमादतस्तत्परिवर्तनसंभवः । तथा च 'दुवे काबोईसरीराओ' इति मूलपाठे मन्यमाने शरीरशब्दस्य न लक्षणाश्रयप्रसङ्गः शक्त्यैव निर्वाहसम्भवात् ॥ ३७ ॥ कावाई शब्दस्य स्पष्टार्थःकथ्यतेकापोती द्विविधा श्वेता-कृष्णा चोक्ता वनस्पतौ । लक्षणोत्पत्तिभेदाश्च, तस्यास्तत्र निरूपिताः ॥३८॥ कापोतीति-सुश्रुतसंहितायां कापोतीशब्दस्य प्राचीनकालप्रसिद्धवनस्पत्यर्थकत्वप्रसिद्धम् । तदुपयोगस्तदुत्पत्तिस्थानं तल्लक्षणानि च तत्र विस्तरेणोक्तानि । तथाहि ८२१ पृष्ठे-"श्वेत. कापोती समूलपत्रा भक्षयितव्या गोनस्यजगरी कृष्णकापोतीनां सनखमुष्टिम् खण्डशः कल्पयित्या क्षीरेण विपाच्य परिस्रावितमभिहुतञ्च सकृदेवोपभुञ्जीतम्" । तत्रैव ८२२ पृष्ठे श्वेतकापोतीलक्षणम् "निष्पत्रा कनकाभासा, मूल. द्वयंगुलसंमिता। सर्पाकारा लोहितान्ता, श्वेतकापातिरुच्यते ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112