Book Title: Revati Dan Samalochna
Author(s): Ratnachandra Maharaj
Publisher: Shwetambar Sthanakwasi Jain Vir Mandal

View full book text
Previous | Next

Page 35
________________ २० रेवती-दान-समालोचना . . . . मांसवत्फलगर्भेऽप्युक्तत्वात्, मार्जारकुक्कुटकपोतशब्दानां प्राणिवद्वनस्पत्यर्थेऽपि विद्यमानत्वात् । तत्कथमिति तु प्रमाणपुरस्सरमने दर्शयिष्यामः । द्वयर्थका वाऽनेकार्थकाः शब्दाः श्रोतरि संशयजनकाः सन्तोऽवश्यमेव विचारणीयपथमायान्ति । एतादृशपरिस्थितौ प्रसंगादिकमेव निर्णायकं भवति । यथा केनचिच्छेष्ठिना किंकरं प्रत्युक्तं 'सैन्धवमानय'। एतच्छ्रवणानन्तरं स संशयानश्चिन्तयति 'किं लवणमानयामि वाऽश्वम्'। प्रसङ्गोपस्थितो. तु. निर्णयति । यन्नेदानी लवणप्रयोजनं प्रयाणप्रसङ्गात् । यद्वा नाश्वप्रयोजनं भोजनप्रसङ्गात् । एवमत्राप्युभयार्थकान् षट् शब्दान् श्रुत्वा श्रोतारो गच्छन्त्येव चिन्तापथम् । अत्रं ये सम्यंगदृष्टयः शास्त्रज्ञास्ते तु प्रसङ्गानुसारेण सम्यग्दृष्टितया सम्यगर्थमेव निश्चिन्वन्ति । ये तु मिथ्यादृष्टयस्ते विपरीतमेवाथै गृह्णीयुः । तेषां तत्स्वभावत्वात् । यदुक्तं नन्दीसूत्रे-"सम्मदिद्विस्स सम्मसुयं मिच्छदिद्विस्स मिच्छसुयं" ॥ १३ ॥ विपरीतदृष्टयः कमर्थं गृहन्तीत्याहविपर्यस्तधियः केचिन्मत्वा मांसार्थकांश्च तान् ।। शास्त्रस्यापि सदोषत्वं, ख्यापयन्ति यथाकथम् ॥१४॥ विपर्यस्तधियइति-यथा दृष्टिस्तथा सृष्टिः । सम्यगज्ञानदर्शनावासितान्तःकरणाः केचिज्जमाः प्रकरणादिकमनपेक्ष्यैव शद्धमर्थ विहायोपर्युक्तानां षएगां शब्दानां प्राणिजन्यमांसाद्यर्थेकत्वं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112