________________
२०
रेवती-दान-समालोचना
.
.
.
.
मांसवत्फलगर्भेऽप्युक्तत्वात्, मार्जारकुक्कुटकपोतशब्दानां प्राणिवद्वनस्पत्यर्थेऽपि विद्यमानत्वात् । तत्कथमिति तु प्रमाणपुरस्सरमने दर्शयिष्यामः । द्वयर्थका वाऽनेकार्थकाः शब्दाः श्रोतरि संशयजनकाः सन्तोऽवश्यमेव विचारणीयपथमायान्ति । एतादृशपरिस्थितौ प्रसंगादिकमेव निर्णायकं भवति । यथा केनचिच्छेष्ठिना किंकरं प्रत्युक्तं 'सैन्धवमानय'। एतच्छ्रवणानन्तरं स संशयानश्चिन्तयति 'किं लवणमानयामि वाऽश्वम्'। प्रसङ्गोपस्थितो. तु. निर्णयति । यन्नेदानी लवणप्रयोजनं प्रयाणप्रसङ्गात् । यद्वा नाश्वप्रयोजनं भोजनप्रसङ्गात् । एवमत्राप्युभयार्थकान् षट् शब्दान् श्रुत्वा श्रोतारो गच्छन्त्येव चिन्तापथम् । अत्रं ये सम्यंगदृष्टयः शास्त्रज्ञास्ते तु प्रसङ्गानुसारेण सम्यग्दृष्टितया सम्यगर्थमेव निश्चिन्वन्ति । ये तु मिथ्यादृष्टयस्ते विपरीतमेवाथै गृह्णीयुः । तेषां तत्स्वभावत्वात् । यदुक्तं नन्दीसूत्रे-"सम्मदिद्विस्स सम्मसुयं मिच्छदिद्विस्स मिच्छसुयं" ॥ १३ ॥
विपरीतदृष्टयः कमर्थं गृहन्तीत्याहविपर्यस्तधियः केचिन्मत्वा मांसार्थकांश्च तान् ।। शास्त्रस्यापि सदोषत्वं, ख्यापयन्ति यथाकथम् ॥१४॥
विपर्यस्तधियइति-यथा दृष्टिस्तथा सृष्टिः । सम्यगज्ञानदर्शनावासितान्तःकरणाः केचिज्जमाः प्रकरणादिकमनपेक्ष्यैव शद्धमर्थ विहायोपर्युक्तानां षएगां शब्दानां प्राणिजन्यमांसाद्यर्थेकत्वं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com