Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्प- प्रभायां पर्युषणपर्वणि पौषधव्रतग्रहणाधिकारः। इत्येवं सद्भावनां भावयताऽपि चारित्रमोहनीयकर्मोदयान्नवाऽद्यावधि निरुपमशिवसुखप्रदं चक्रवर्तिसुखातिशायिसुखरूपं चारित्ररत्नं लब्धं, तथापि लोकत्रये रत्ननिधानमिव सारभूतमनन्तदु:खपरिमोचकमनन्तसुखदायकमिदं पर्युषणपर्वोपेक्ष्यायत्यनन्तदुःखप्रदं खल्पमचारु कामजं सुखं नैव सेवितुं युक्तं प्रभुशासनमन्दिरप्रवेशान्यथानुपपत्त्या भगवदनुगृहीतस्य मम, किन्तु भोगतृष्णालतारूपनिविडवनदहनेऽग्निवदुद्दाममहिमानमज्ञानरूपकमले हिमानीसंपातं विवेकं कृत्वा मयाऽष्टदिनावधि भोगतृष्णोच्छेद्यैवेतिभावनावासितान्तःकरणेन । मुख्यवृत्त्याऽष्टदिनं यावन्मुनिहृदयकमलवर्तिखयंभूरमणसमुद्ररसस्पर्द्धिवर्द्धिष्णुसमतारसबिन्दोर्यथाकथञ्चिदनुभवार्थ गृहीतपौषधव्रतेन प्रतिश्रावकेण पर्युषणपर्व समाराधनीयम् । अत्रानुमानप्रमाणमपि-पर्युषणपर्वसमाराधनं पौषधग्रहणपूर्वकं कर्त्तव्यं, तथैवात्मविशुद्धिवृद्धिभावेन महाकर्मनिर्जराकारकत्वात् , सौभाग्यपश्चमीसमाराधनवदित्याशयेनाह, आवासराष्टकसुपौषधमग्नचित्तैरिति । ननु नाऽधुना जीवपरिणाममान्द्यान्मोक्षो भवतीति तदभिलाषुकेणापि तत्साधनीभूतसामायिकपौषधसंयमादिसम्यकक्रिया नाऽधुनाऽऽदरणीया, इदानीं मोक्षानुत्पादकत्वात् , यन्न मोक्षोत्पादकं तन्नाऽऽदरणीयं धर्मार्थिना, सावद्यक्रियावदिति चेत्, तर्हि मत्यादिज्ञानमपि नैवेदानी मोक्षोत्पादकमिति नैव तदप्यभ्यसनीयं स्यात्। नन्विदानीं तदभ्यस्तमुत्तरोत्तरभवे सुगुवा दियोगादभ्यस्यमानमन्ततः क्षायोपशमिकभावं परित्यज्य क्षायिकभावरूपेण परिणतं सत्तदेव परम्परया मोक्षोत्पादकं भवतीतीदानीमपि तदभ्यसनीयमेवेति चेत्, तत्तुल्यमत्राऽपि । तथा हि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74