Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra श्रीपर्युषणपर्वकल्पप्रभायां ॥ २४ ॥ www.kobatirth.org निशम्य तद्वाचमुवाच मन्त्री, श्रीसूर्यभूपेन च सङ्गमो वाम् । श्रेयान् यतोऽसौ वृषभध्वजस्य, नप्ता महीयान् भरतस्य पुत्रः ॥ २८ ॥ कलाकला पाकलितोऽतिसौम्य - प्रेयान् प्रवीरो युवयोरयं स्यात् । ज्योत्स्नानिशे चन्द्रमसं समेत्य, भातस्तथा, सूर्यन्नृपं भवत्यौ ॥ २९ ॥ इत्याग्रहं भूपतिमन्त्रिणस्ते, प्रगृह्य चैत्याग्रतले प्रयाते । राजाऽपि तत्प्रेमरसापकृष्ट-स्तयोः समक्षं समुपाजगाम ॥ ३० ॥ परस्परप्रेमविधान भाजा, गान्धर्वरीत्या प्रविवाह्य चैते । ताभ्यां समं वैषयिकं सुखं स भेजेऽनिशं सूर्ययशा महीन्द्रः ॥ ३१ ॥ ताभ्यां समं भूपतिरन्यदा तु वातायनस्थानमुपाजगाम । ते अष्टमी श्वो भवितेति ढक्का-नादानुगां संशृणुतस्स्म वाचम् ॥ ३२ ॥ तदोर्वशी स्वावसरं विचार्य, वर्षानकोद्घोषणकारणं किम् ? | अजानतीव प्रणता नरेशं, पप्रच्छ सोऽपि प्रति तां जगाद ॥ ३३ ॥ चतुर्दशी चाष्टमिका च पर्व, तातोक्तमष्टाहिकपर्व युग्मम् । त्रयं चतुर्मासगतं तथेत्थं, पर्वोत्तमं पर्युषणाख्यपर्व ॥ ३४ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीसूर्यय शोनृपहटान्तोप वर्णनम् । ॥ २४ ॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74