Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसूर्ययशोनृपहष्टान्तोपदर्शनम् । "अलसायंतेण वि स-जणेण जे अक्खरा समुल्लविया । ते पत्थरेसु टंकु-ल्लिहियत्व न हु अन्नहा हुंति ॥१॥ 'छिजउ सीसं अह हो-उ बंधणं चयउ सव्वहा लच्छी। पडिवन्नपालणे स-प्पुरिसाण जं होइ तं होउ ॥२॥" श्रुत्वेति हास्येन प्रमादतोऽप्यु-क्तं नाऽन्यथा सुज्ञजनः करोति । तदोपयुक्तेन मया तु प्रोक्तं, व्यर्थ प्रजानन् किमिति प्रकुर्वे ॥४९॥ कोपारुणाक्षी निजगाद बाला, "वचस्त्वदीयं वितथं न कुर्वे"। इति प्रतिज्ञा विहिता पुरस्तात्, त्रैलोक्यनाथस्य जिनेश्वरस्य ॥५०॥ परित्यजस्तां कथमेव राजन् !, न लजसे ! सभ्यजनस्य मध्ये । श्रुत्वा तदुक्तिं निजगाद भूय-श्चिन्ताभराक्रान्तमना महीशः ॥५१॥ अन्यथेष्टं परिमार्गय त्वं, न पर्वभङ्गं मम कारय त्वम् । श्रुत्वोर्वशी तद्वतनिश्चयार्थ, भूयोऽपि राजानमिदं बभाषे ॥५२॥ न पर्वभङ्गं कुरुषे महीप!, जिनेन्द्रचैत्यं ननु पातय द्राक। श्रुत्वेति मूर्छामगमन्महीन्द्रो, हाहेति नादः प्रससार तत्र ॥५३॥ १ अलसायमानेनाऽपि सजनेन येऽक्षरास्समुल्लपिताः । ते प्रस्तरेषु टङ्कोल्लिखिता इव न खल्वन्यथा भवन्ति ॥१॥ २ छिद्यतां शीर्षमथ भवतु बन्धनं त्यजतु सर्वथा लक्ष्मीः। प्रतिपन्नपालने सत्पुरुषाणां यद्भवति तद्भवतु ॥ २॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74