Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषणपर्वकल्पप्रभायां
क्षमाभूषणाभूश्रेष्ठिदृष्टान्तोपदर्शनम् ।
॥२८॥
MEASURESSURES
भूलघुभ्रात्रा जिनदासनाम्ना निमन्त्रितस्तदा स तदावासे गतो दुग्धपादप्रक्षालनपूर्वमासनेषूपवेशितः, आभूश्रेष्ठी नमस्कारं गृणन् समागतस्तदा भ्रात्रा जिनदासेन प्रोक्तं स्थालानि कीदृशान्युपयुनज्मि ? सङ्घपतिनोक्तं यद्यस्मिन् पुण्यसमये स्वर्णरूप्यमयानि स्थालानि नोपयोगीनि तदा कदोपयोगितामायास्यन्तीति स्वर्णरूप्यमयान्येव, तदा पञ्च पञ्च शतानि पढौ पतौ वर्णरूप्यमयानि स्थापितानि, एवं याममध्येऽपि सकल: श्रीसङ्घो भोजितः, परिधापितश्च पञ्चवर्णपट्टदुकूलभूषणादिभिः, तदनु सङ्घपतिझाञ्झणः सङ्घपत्याभूत्रेष्ठिपादयोलग्नो मदीयोऽपराधः क्षन्तव्यः, किं सुवर्णे श्यामिका लगति ? त्वं भाग्यवान् यस्येदृशं गाम्भीर्यमित्यादिसङ्घपत्याभूगुणग्रामोपबृंहणां कुर्वन् श्रीशत्रुञ्जयादियानां कृत्वा समागतो मण्डपदुर्ग इति । किश्च "पत्रिंशता हेममयस्सहस्र, रत्नोज्ज्वलैः श्रावकपुङ्गवानाम् ।
भालस्थले भूषयति स्म भक्त्या, श्रीवस्तुपालस्तिलकैर्विवेकी ॥१॥" इत्यादिप्रकारैर्यथाऽऽभूना वस्तुपालेन च श्रीसङ्घः पूजितस्तथा प्रमोदप्रकर्षेण भाग्यवता विभवानुसारेण श्रीसङ्घः पूजनीय इति । उक्तञ्च"सत्तीइ संघपूजा, विसेसपूजा उ बहुगुणा एसा । जं एस सुए भणिओ, तित्थयराणंतरो संघो ॥१॥” इति ।।
१ शक्त्या सङ्घपूजा विशेषपूजा तु बहुगुणैषा । यदेष श्रुते भणितस्तीर्थकरानन्तरः सङ्घः ॥१॥
CURRECRUARRESS
श्रीसङ्घ | पूजाधि
कारः। ॥२८॥
For Private and Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74