Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ श्रीपर्युषण पर्वकल्पप्रभा-मूलश्लोकाः ॥
आवासराष्टकसुपौषधमग्नचित्तै- स्त्यक्ताश्रवैः प्रशमरुद्धकषायवर्णैः । श्रीकल्पसूत्रसविधिश्रवणैकतानै-राराधना जिनमतोन्नतिकाऽत्र कार्या ॥ १॥ सार्द्धं कृपालुगुरुणा भवतारकेण, कार्य प्रतिक्रमणमात्मविशुद्धिकारि । कालद्वयं जिनवरोक्तशुभाशयेन, नित्यं प्रमादपरिहारत आर्हतेन ॥२॥ सामायिकं च समभावमरौ च मित्रे, निश्शेषकर्मविषमुक्तत्यहिमन्रकल्पम् । सावद्ययोगपरिहारदृढ प्रतिज्ञं, कार्यं त्रिधा परशुचन्दनकल्पवृत्त्या ॥३॥ सर्वैरथाऽऽब्दिकप्रतिक्रमणे विधेया, सत्क्षामणाकरणतो मिथ आत्मशुद्धिः । मिथ्याऽस्तु पूर्वकृतदुष्कृतमत्र सर्वं, द्राङ् मे शिवैकमन| सेति विभावनीयम् ॥ ४॥ स्नात्रं वरप्रशमकृद्भवभिज्जिनानां, माङ्गल्यकृत्सुरगिरौ सुरवद्विधाय । अङ्गाग्रभावविभिदा प्रवरा जिनाच, खर्गापवर्गजननी विधिना विधेया ॥५॥ ज्ञानी सुदृष्टिरपि कोपि तपो व्यपोथ, मोक्षं गतो न च निहन्ति निकाचितं तत् । कर्माऽपि तेन विभुना शिवशर्महेता-वभ्यर्हितं गदितमित्यवगम्य विज्ञैः ||६|| धृत्वाऽत्र धैर्यसुविवेकवरक्षमाऽस्त्रं, जित्वा च मोहनृपमप्यमरोपसर्गे । कार्याऽष्टमा दिविविधोग्रतपोविलोप- बुद्धिर्न सूर्ययश| सेव शिवाभिलाषैः ॥७॥ भाग्याप्तपर्युषण पर्वणि सज्जना भोः!, सर्वप्रमादमवधूय तपः कुरुध्वम् । नाऽह विलम्ब | इति प्रेरणतोऽज्ञपुंसः, प्रोत्साद्य तद्धितगिराऽत्र विधापयेज्ज्ञः ॥ ८ ॥ कार्येष्टभोजनविभिन्नप्रभावनाद्यै-राभ्वादिव| न्निखिलसङ्घसप्रेमभक्तिः । सङ्घो हि तीर्थकरपूजित इत्यतोऽनु- पूज्यस्य तस्य परिधापनिका प्रदेया ॥९॥ अर्हत्क्रियानिरतचित्त उपासकोऽपि, सुस्मारणादिकरणेन प्रमत्तकेषु । साधर्मिकेषु तदपूर्वहिताय भाव- वात्सल्यमर्हदुदितं हृद
For Private and Personal Use Only
मूलश्लोकाः

Page Navigation
1 ... 69 70 71 72 73 74