Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीपर्युषणपर्वकल्प
प्रभायां
॥ २९ ॥
*****
www.kobatirth.org
न च श्रावकाणां तत्राऽनधिकार इति वाच्यं, शास्त्रे तथैव विधानात् । उक्तञ्च श्राद्धदिनकृत्यग्रन्थे" साहम्मियाण वच्छलं, एवं अन्नं वियाहियं । धम्मट्टाणेसु सीयंतं, सङ्घभावेण चोयए ॥ १ ॥ ""सारणा वारणा चैव, चोयणा पडिचोयणा । सावएणाऽवि दायवा, सावयाणं हियद्वया ॥ २ ॥” इति । अन्यदिति भाववात्सल्यमित्यर्थः, विस्मृतस्य धर्मकृत्यस्य ज्ञापनेन स्मारणा कर्तव्या, कुसंसर्गाद्यकृत्यस्य निषेधेन वारणा विधेया, एतयोश्च सततं क्रियमाणयोर्हि कस्यचित्प्रमादबहुलस्य नियमस्खलितादौ सति " युक्तं किं श्राद्धकुलोत्पन्नस्य तवेत्थं प्रवर्तितुम्?" इत्यादिवाक्यैः सोपालम्भं प्रेरणेन चोदना कार्या, तथा तत्रैवाऽसकृत्स्खलितादौ सति “धिक ते जन्म" इत्यादिनिष्ठुरवाक्यैर्गाढतरप्रेरणाकरणेन प्रतिचोदना कर्त्तव्येति । अथ खलक्ष्मीसव्ययेन स्वकृतार्थतामाह
Acharya Shri Kailassagarsuri Gyanmandir
दौःस्थ्याज्जिनाध्वपततो द्रढयेत् कुलीनान् धर्मे धनार्पण सुधोक्तिसुप्रेरणेन ।
व्यापारयोजनत आत्मसदृङ्महेभ्यान् कृत्वाऽऽशु धर्मवरकर्मणि योजयेद्वा ॥ ११ ॥ तीर्थङ्कराज्ञाराधकानां साधर्मिकाणां निर्धनत्वेन दौःस्थ्याद्धर्मानुष्ठाने सीदतां पुनर्ग्रहणानिच्छ्यात एवामृत
१ साधर्मिकाणां वात्सल्यमेतदन्यद् व्याहृतम् । धर्मस्थानेषु सीदन्तं सर्वभावेन चोदयेत् ॥ १ ॥
२ स्मारणा वारणा चैव चोदना प्रतिचोदना । श्रावकेणाऽपि दातव्या, श्रावकाणां हितार्थम् ॥ २ ॥
For Private and Personal Use Only
धर्मक्रिया
प्रमादिश्रावकाणां
धर्मैकनिष्ठे
न श्रावके णापि सा५ रणादि क★ र्त्तव्यमित्यधिकारः ।
अर्हम सी
दतां खलक्ष्मीदानेन धर्मदाय
पादनाधि
कारः ।
।। २९ ।।

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74