Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra श्रीपर्युषण पर्वकल्प प्रभायां ॥ २५ ॥ 1509 www.kobatirth.org मनुष्यजन्माऽपि धिगस्तु तस्य, सुपर्वसंराधनवर्जितस्य । अतो जिनाज्ञां वितथां न कुर्या, यावच्छरीरे मम जीवनं स्यात् ॥ ४२ ॥ अथोर्वशी तद्वचनं निशम्य, जगाद रुष्टा परिमोहयन्ती । स्वच्छन्दचारी नृपतिर्वृतो यत्, तेनाऽतिदीने परिवञ्चिते खः ॥ ४३ ॥ भ्रष्टाऽस्मि शीलादध सौख्यतोऽपि तन्मेऽस्तु भद्रं मरणं चितायाम् । न पुंस्त्रियोर्यत्र मिथोऽनुराग - स्तन्मान्मथं सौख्यमहो ! मुधैव ॥ ४४ ॥ महीमहेन्द्रोऽपि तदैव तस्या, वचः प्रतप्तन्त्रपुसन्निभं तत् । निशम्य तातस्य कुले प्रजातः, कथं नु धर्मं परिसन्त्यजामि ? ॥ ४५ ॥ कृशाङ्गि ! कोषं निखिलं मदीयं गृहाण रत्नानि महीं च सर्वाम् । सर्वस्य सौख्यस्य निदानतो मां, न धर्मकृत्यात्परिहापय त्वम् ॥ ४६ ॥ प्रयातु राज्यं यदि वा कृतान्तः, शिरो मदीयं सहसाऽऽच्छिनत्तु । तथापि पापानिजलात्कदापि, व्यपैतु धर्मान्न मनामतिर्मे ॥ ४७ ॥ पितामहोक्तं विहितं च पित्रा, यत्तत्तपोऽहं परिमुच्य नैव । जिनेश्वरोद्दिष्टमिदं सुपर्व, नीचात्मपुंवच्च मुधानयामि ॥ ४८ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir श्रीसूर्यय शोनृपष्टान्तोपदर्शनम् । । ।। २५ ।।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74