Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसूर्ययशोनृपहष्टान्तोपवर्णनम्। RECESSAREERULE श्रुत्वेति वाचो नृपतेस्तदानीं, तयोः समीपं सचिवो जगाम । के स्थो युवां ? को युवयोः पतिर्हि ?, किमर्थमत्राऽऽगमनं ? मनोज्ञे! ॥२१॥ सर्व समाशंसतमत्र सूर्य-यशा महीन्द्रः समुपस्थितो हि । इतीरितं मत्रिवरस्य तस्य, निशम्य चैकाऽथ तयोर्वभाषे ॥ २२ ॥ आवां नु मनिन् ! मणिचूडनानो, विद्याधरेन्द्रस्य सुते अवेहि । अनेकविद्यागुणगुम्फितस्य, कुमारिके खो निजधर्मरक्ते ॥ २३ ॥ आबाल्यकालाच कलाऽऽदृतं नौ, वीणासु सम्यग्रमते मनो हि। अहर्निशं पुस्तकवाचनातो, जिनेश्वराराधनमग्नमेव ॥ २४ ॥ बाल्यात्परं वीक्ष्य वयोनिवेशं, चिन्ता पितुर्नी महती बभूव । कस्मै प्रदेये वरकन्यके द्वे, इत्युत्कटोद्वेगविधानदक्षे ॥२५॥ आवां जगत्यामपि नो सदृक्षं, लभावहे कापि पतिं सुमत्रिन् ! जिनेश्वराराधनमेव कृत्वा, जनुः स्वकीयं सफलं विदध्वः ॥ २६ ॥ युग्मम् । जगत्यशेषेऽतिपवित्रभूता,-ऽयोध्या पुरीयं जिनपादपूता। अतोऽत्र चैत्ये जिनमर्चयावः, सद्भक्तियोगादुपवीणयावः ॥२७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74