Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युपणपर्वकल्पप्रभायां ॥१८॥ उभयाराधकत्वे चन्दनबालामृगावती दृष्टान्तः। MASCUSSAMACHAR चण्डप्रद्योतः क्षमितः। अत्र श्रीउदयनराजस्यैवाऽऽराधकत्वं, तस्यैवोपशान्तत्वात्, न तु चण्डप्रद्योतस्य, तस्याऽनुपशान्तत्वात् , कचिच्चोभयोरप्याराधकत्वं, चन्दनवालामृगावतीवत्, तथाहि_ "एकदा श्रीमहावीरः, कौशाम्ब्यां समवासरत् । वन्दितुं तत्र चन्द्रार्की, सविमानौ समीयतुः॥१॥ तथापि चन्दना ज्ञात्वा, दक्षाऽस्तसमयं ततः । निर्गयाऽगान्निजस्थाने, तत्रैवाऽस्थान्मृगावती ॥२॥ खस्थानं गतयोश्चन्द्र-सूर्ययोरथ विस्तृते । तमस्यागाहृतं भीता, सा साध्वीनां प्रतिश्रये ॥३॥ तत्रेर्यापथिकी साथ, प्रतिक्रम्य प्रवर्तिनीम् । शयनस्थां प्रणम्योचे, मन्तु, क्षम्यतामयम् ॥४॥ चन्दना चन्दनाभाभिर्वाणीभिस्तामथाऽभ्यधात् । भद्रे! भद्रकुलोत्पन्ने !, किं ते साम्प्रतमीदृशम् ?॥५॥ साऽप्यूचे मयकाऽपायं, कृतं दुष्कृतमेतकम् । करिष्ये नेदृशं भूय, इत्युक्त्वा न्यपतत्पदोः॥६॥ निद्राऽथाऽगात्प्रवर्तिन्या, मृगावत्यास्तु भावतः। मिथ्यादुष्कृतकारिण्या, जज्ञे केवलमुज्ज्वलम् ॥७॥ सर्पव्यतिकरेण च, प्रवुद्धा चन्दना तदा । अवाप केवलं ज्ञानं, क्षमयन्ती मृगावतीम् ॥८॥ किश्चाऽन्यत्कर्तव्यमत्रेति जिज्ञासायामाह स्नात्रं वरप्रशमकृद्भवभिजिनानां, माङ्गल्यकृत्सुरगिरौ सुरवद्विधाय । अङ्गाग्रभावविभिदा प्रवरा जिनार्चा, स्वर्गापवर्गजननी विधिना विधेया॥५॥ इति । प्रथमं तावत् कुङ्कमकर्पूरश्रीखण्डाद्युन्मिश्रेण सुगन्धिजलेन त्रिभुवनगुरोस्लानं कुर्यात्, उक्तञ्च जिनस्वात्रा|धिकारः। ॥१८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74