Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ "मित्ति कायभावनम्रतारूपमृदुत्वमार्दवत्वे, छत्ति असंयमदोषच्छादने, मित्ति चारित्रमर्यादायां स्थितः, दुत्ति जुगुप्सामि दुष्कृतकर्मकारिणमात्मानम् , कत्ति कृतं मया पापं, डत्ति डेवेमि-लुम्पयामि तदुपशमेन"। इत्येवं 'मिच्छामि दुक्कडंपदाक्षरार्थ इति हेतोः कृतपाप एवाऽपराधी मिथ्यादुष्कृतं दद्यात्, नाऽहं तथा, शुद्ध एवाऽहमिति किमर्थ मिथ्यादुष्कृतं ददामीत्येवं द्वयोर्मध्ये यद्येकोऽपराध्यपि ब्रूयात्तदा स द्विगुणं पापं करोति, खस्य बालत्वं च प्रकाशयति, मृषाभाषणेन खात्मानमनन्तसंसारकान्तारमनुवर्तयति च । उक्तश्च "पावं काऊण सयं, अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेइ पावं, बीयं बालस्स मंदत्तं ॥१॥” इति । भावतो मिथः क्षामणं ह्यनपराधिनोऽपि तृतीयौषधवत् पुष्टिकार्येव, तत्रोदयनराजदृष्टान्तश्चाऽयम्सिन्धुसौवीरदेशाधिपतिर्दशमुकुटबद्धभूपसेव्य उदयनराजो विद्युन्मालिसमर्पितश्रीवीरप्रतिमार्चनाप्रभावनिरोगीभूतगन्धारश्राद्धार्पितगुटिकाभक्षणतो जाताद्भुतरूपायाः सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया अपहर्तारं मालवदेशभूपं चतुर्दशभूपसेव्यं चण्डप्रद्योतराज देवाधिदेवप्रतिमाप्रत्यानयनोत्पन्नसङ्ग्रामे बद्धा पश्चादागच्छन् दशपुरे वर्षासु तस्थौ, वार्षिकपर्वणि च स्वयमुपवासं चक्रे, भूपादिष्टसूपकारेण भोजनार्थ पृष्टेन चण्ड- प्रद्योतेन विषभिया श्राद्धस्य ममाऽप्यद्योपवास इति प्रोक्ते धूर्तसाधर्मिकेऽप्यस्मिन्नक्षमिते मम प्रतिक्रमणं न शुध्यतीति तत्सर्वप्रदानतस्तद्भाले 'मम दासीपतिः' इत्यक्षराच्छादनाय वर्णपट्टदानतश्च श्रीउदयनराजेन १ पापं कृत्वा स्वयमात्मानं शुद्धमेव व्याहरति । द्विगुणं करोति पापं द्वितीयं बालस्य मन्दत्वम् ॥१॥ भावत: | क्षमयितु| रेवाऽऽराधकत्वं नान्यस्येत्यवोदयनचण्डप्रद्योत नृपहष्टान्तः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74