________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषणपर्वकल्प- प्रभायां
पर्युषणपर्वणि पौषधव्रतग्रहणाधिकारः।
इत्येवं सद्भावनां भावयताऽपि चारित्रमोहनीयकर्मोदयान्नवाऽद्यावधि निरुपमशिवसुखप्रदं चक्रवर्तिसुखातिशायिसुखरूपं चारित्ररत्नं लब्धं, तथापि लोकत्रये रत्ननिधानमिव सारभूतमनन्तदु:खपरिमोचकमनन्तसुखदायकमिदं पर्युषणपर्वोपेक्ष्यायत्यनन्तदुःखप्रदं खल्पमचारु कामजं सुखं नैव सेवितुं युक्तं प्रभुशासनमन्दिरप्रवेशान्यथानुपपत्त्या भगवदनुगृहीतस्य मम, किन्तु भोगतृष्णालतारूपनिविडवनदहनेऽग्निवदुद्दाममहिमानमज्ञानरूपकमले हिमानीसंपातं विवेकं कृत्वा मयाऽष्टदिनावधि भोगतृष्णोच्छेद्यैवेतिभावनावासितान्तःकरणेन । मुख्यवृत्त्याऽष्टदिनं यावन्मुनिहृदयकमलवर्तिखयंभूरमणसमुद्ररसस्पर्द्धिवर्द्धिष्णुसमतारसबिन्दोर्यथाकथञ्चिदनुभवार्थ गृहीतपौषधव्रतेन प्रतिश्रावकेण पर्युषणपर्व समाराधनीयम् ।
अत्रानुमानप्रमाणमपि-पर्युषणपर्वसमाराधनं पौषधग्रहणपूर्वकं कर्त्तव्यं, तथैवात्मविशुद्धिवृद्धिभावेन महाकर्मनिर्जराकारकत्वात् , सौभाग्यपश्चमीसमाराधनवदित्याशयेनाह, आवासराष्टकसुपौषधमग्नचित्तैरिति ।
ननु नाऽधुना जीवपरिणाममान्द्यान्मोक्षो भवतीति तदभिलाषुकेणापि तत्साधनीभूतसामायिकपौषधसंयमादिसम्यकक्रिया नाऽधुनाऽऽदरणीया, इदानीं मोक्षानुत्पादकत्वात् , यन्न मोक्षोत्पादकं तन्नाऽऽदरणीयं धर्मार्थिना, सावद्यक्रियावदिति चेत्, तर्हि मत्यादिज्ञानमपि नैवेदानी मोक्षोत्पादकमिति नैव तदप्यभ्यसनीयं स्यात्।
नन्विदानीं तदभ्यस्तमुत्तरोत्तरभवे सुगुवा दियोगादभ्यस्यमानमन्ततः क्षायोपशमिकभावं परित्यज्य क्षायिकभावरूपेण परिणतं सत्तदेव परम्परया मोक्षोत्पादकं भवतीतीदानीमपि तदभ्यसनीयमेवेति चेत्, तत्तुल्यमत्राऽपि । तथा हि
For Private and Personal Use Only