Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatirth.org
श्रीपर्युषणपर्वकल्पप्रभायां
श्रीकल्पसू
श्रवणफलप्रतिपादनम् ।
॥१५॥
श्रीकल्पसूत्रवाचनाऽऽरम्भात्पूर्वदिवसे समहोत्सवं श्रीकल्पसूत्रं खगृहे नीत्वा तत्र धर्मजागरिकां कृत्वा वाचनाऽऽदिवसेच विविधमहोत्सवैः सकलसङ्घन सहोपाश्रयमागत्य श्रीगुरुभगवद्धस्ते समये वासकस्तूरीकपूरैधूपदीपैश्च प्रपूज्य श्रीकल्पसूत्रमाकर्णनीयमिति । अथ तत्र श्रीकल्पसूत्रश्रवणे किं फलमिति चेत्, उच्यते| "कल्पोऽकल्प्यसुभावकृत्कलिमलप्रध्वंसबद्धादरः, कल्पस्सर्वसमीहितोदयविधौ कल्पद्रुकल्पः कलौ। ये कल्पं परिवाचयन्ति भविकाइशृण्वन्ति ये चाऽऽदरात्, ते कल्पेषु विहृत्य मुक्तिवनितोत्सङ्गे सदा शेरते ॥१॥ ___ "दानैस्तपोभिर्विविधैः, सत्तीर्थोपासनैरहो!। यत्पापं क्षीयते जन्तो-स्तत्पापं श्रवणेन वै ॥२॥” इति । अथाऽनन्तदुःखापहे श्रीपर्युषणापर्वणि कर्तव्यान्तरमाह
साद्धं कृपालुगुरुणा भवतारकेण, कार्य प्रतिक्रमणमात्मविशुद्धिकारि ।
कालद्वयं जिनवरोक्तशुभाशयेन, नित्यं प्रमादपरिहारत आर्हतेन ॥२॥ ननु प्रतिक्रमणं गुरुणा सह कर्तव्यमित्यत्र किं मानं कश्च लाभ इति चेत्, शृणु"पंचविहायारविसु-द्धिहेउमिह साहु सावगो वाऽवि। पडिकमणं सह गुरुणा, गुरुविरहे कुणइ इकोवि॥१॥" इति सिद्धान्ताद्गुरुसद्भावे तेनैव सार्द्ध पञ्चविधाचारविशुद्ध्यर्थं प्रतिक्रमणं प्रतिदिनं कर्तव्यं, तथाकरणे १ पञ्चविधाचारविशुद्धिहेतोरिह साधुः श्रावको वाऽपि । प्रतिक्रमणं सह गुरुणा गुरुविरहे करोत्येकोऽपि ॥१॥
प्रतिक्रम
SAUSAGGASASISARUSHIRI
णस नित्यं गुरुणा सह करणे विशिष्टफलप्रदर्शनम् । ॥१५॥
द
For Private and Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74