Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सामान्य भोज्यनिचयैः परितोष्य साऽऽख्यत्, त्वं मृत्युतोऽद्य मयका परिमोचितोऽसि । श्रुत्वेति पञ्चमवधूसुगिरं स चौर-आनन्दमाप नितरां प्रशशंस राज्ञीम् ॥ १० ॥ तासां मिथस्तदुपकारकृतौ विवादं श्रुत्वा नृपस्तमथ चौरमपृच्छदेवम् । काभिः कृतोपकृतिराह स नम्रभावात्, वृत्तान्तमेतदवधानतया शृणु त्वम् ॥ ११ ॥ द्वात्रिंशदभ्यवहृतैः परिभोज्य पश्चात्, श्रेष्ठ्युत्तमाङ्गमसिना लघु कर्त्तनीयम् । इत्यन्त्यशासन वशंवद सैनिकास्ते, रक्तेक्षणा घृतशिरोऽसिलताश्च तस्थुः ॥ १२ ॥ सच्चामरैश्च प्रमदापरिवीज्यमानो, गीतोऽपि मागधजनैः परितस्तदानीम् । इभ्यः सुखं किमु लभेत मृगेन्द्रभीत-वातायुवन्मृतिभयान्न सुखं तदाऽऽप्तः ॥ १३ ॥ या पञ्चमी नृप ! वधूर भयप्रदान- माजीवनं प्रददती नवजन्म मह्यम् । साकारयत्तदिह भोजनतोऽविशेषात्, सौख्यं यदानुवमदो वदितुं न शक्तः ॥ १४ ॥ उक्तञ्च - " सवे वि दुक्खभीरू, सङ्घे वि सुहाहिलासिणो सत्ता । सङ्घे वि जीवणरया, सवे मरणाओ बीहंति ॥ १ ॥ वैरमन्नभोगदाणं, धणधन्न हिरण्णरज्जदाणं वा । न कुणइ तं मणहरिसं, जायइ जं अभयदाणाओ ॥ २ ॥” इति १ सर्वेऽपि दुःखभीरवः सर्वेऽपि सुखाभिलाषिणस्सत्त्वाः । सर्वेऽपि जीवनरतास्सर्वे मरणाद्विभ्यति ॥ १ ॥ २ वरमन्नभोगदानं धनधान्यहिरण्यराज्यदानं वा । न करोति तं मनोहर्ष जायते योऽभयदानात् ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only अभयदान प्राधान्य ख्यापनार्थ पञ्चराज्ञी दृष्टान्त निरूपणम् ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74