Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 733
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७२८ पराशरमाधवः । [३१०,या का। प्रयोगविधिप्रयोज्यत्वं भिन्नप्रयोगविधिप्रयोज्यत्वञ्च प्राप्तम् । ततश्चैकाधिकारपूर्वसाधनत्वं भिन्नाधिकारपूर्वसाधनत्वञ्चावगम्यते । उपविष्टब्राह्मणनियमाः स्मृत्यन्तरे दर्शिताः, "पवित्रपाणयः सर्वे ते च मौनव्रतान्विताः । उच्छिष्टोच्छिष्टसंस्पर्श वर्जयन्तः परस्परम्” इति ॥ मौनित्वञ्च ब्रह्मोद्यकथाव्यतिरिक्तविषयम् । अतएव यमः, "ब्रह्मोद्याश्च कथाः कुर्युः पितृणामेतदौमितम्" इति। उपविष्टेष्वपि ब्राह्मणेषु यतिब्रह्मचारौ वा यद्यागच्छति, तदा सोऽपि श्राद्धे भोजयितव्यः । तदाह यमः, "भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः। उपविष्टेम्वनुप्राप्तः कामन्तमपि भोजयेत्”-इति ॥ छागलेयोऽपि, "पूजयेत् श्राद्धकालेऽपि यतिं च ब्रह्मचारिणम् । विप्रानुद्धरते पापात् पिटमादगणानपि” इति ॥ मनुरपि, "ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् । ब्राह्मणैरभ्यनुज्ञातः शक्तिः प्रतिपूजयेत्” इति । ब्राह्मणोपवेशनानन्तरं कृत्यं पुराणेऽभिहितम्, "श्राद्धभूमौ गयां ध्यावा ध्यात्वा देवं गदाधरम् । ताभ्याञ्चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत्”-इति॥ * ततश्चैकाधिकारात् पूर्वसाधकत्वं भिन्नाधिकारात् पूर्वसाधकत्वञ्चायगम्यते,-इति सोपा । •धिकारापूर्वसाधनत्वमिति त्वस्माकं प्रतिभाति। For Private And Personal

Loading...

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803