________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७२८
पराशरमाधवः ।
[३१०,या का।
प्रयोगविधिप्रयोज्यत्वं भिन्नप्रयोगविधिप्रयोज्यत्वञ्च प्राप्तम् । ततश्चैकाधिकारपूर्वसाधनत्वं भिन्नाधिकारपूर्वसाधनत्वञ्चावगम्यते । उपविष्टब्राह्मणनियमाः स्मृत्यन्तरे दर्शिताः,
"पवित्रपाणयः सर्वे ते च मौनव्रतान्विताः ।
उच्छिष्टोच्छिष्टसंस्पर्श वर्जयन्तः परस्परम्” इति ॥ मौनित्वञ्च ब्रह्मोद्यकथाव्यतिरिक्तविषयम् । अतएव यमः,
"ब्रह्मोद्याश्च कथाः कुर्युः पितृणामेतदौमितम्" इति। उपविष्टेष्वपि ब्राह्मणेषु यतिब्रह्मचारौ वा यद्यागच्छति, तदा सोऽपि श्राद्धे भोजयितव्यः । तदाह यमः,
"भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः।
उपविष्टेम्वनुप्राप्तः कामन्तमपि भोजयेत्”-इति ॥ छागलेयोऽपि,
"पूजयेत् श्राद्धकालेऽपि यतिं च ब्रह्मचारिणम् ।
विप्रानुद्धरते पापात् पिटमादगणानपि” इति ॥ मनुरपि,
"ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् ।
ब्राह्मणैरभ्यनुज्ञातः शक्तिः प्रतिपूजयेत्” इति । ब्राह्मणोपवेशनानन्तरं कृत्यं पुराणेऽभिहितम्,
"श्राद्धभूमौ गयां ध्यावा ध्यात्वा देवं गदाधरम् । ताभ्याञ्चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत्”-इति॥
* ततश्चैकाधिकारात् पूर्वसाधकत्वं भिन्नाधिकारात् पूर्वसाधकत्वञ्चायगम्यते,-इति सोपा । •धिकारापूर्वसाधनत्वमिति त्वस्माकं प्रतिभाति।
For Private And Personal