Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 204
________________ नवेषु मृद्भाजने लग्नः संस्कारी ब्रह्मणाप्यन्यथा कतु न शक्यते ॥७४॥ अन्ध इवं वरं परप्रणेयो राजा न ज्ञानलवदुर्विदग्धः ॥ ७५ ॥ नीली रक्ते वस्त्र इव को नाम दुर्विदग्धे राज्ञि रागान्तरमाधते ॥७६॥ यथार्थवाद विदुषां श्रेयस्करो यदि न राजा गुणद्वेषी ॥७७॥ ॥ वरमात्मनो मरणं नाहितोपदेश: स्वामिषु ॥७८॥ ६. अथ आन्वीक्षिकीसमुद्देशः आत्ममनोमरुत्तत्त्वसमतायोगलक्षणो ह्यध्यात्मयोगः ॥ १ ॥ अध्यात्मज्ञो हि राजा सहजशारीरमानसागन्तुभिर्दोषनं वाध्यते ||२|| इन्द्रियाणि मनोविषयाज्ञानं भोगायतन मित्यात्मा रामः ॥३॥ यत्राहमित्यनुपचरितप्रत्ययः समात्मा ||४|| असत्यात्मनः प्रेत्यभावे विदुषां विफलं खलु सर्वमनुष्ठानम् ||५|| यतः स्मृतिः प्रत्यवमर्षंणमूहापोहनं शिक्षालाप क्रियाग्रहणं च भवति तन्मनः ॥६॥ आत्मनो विषयानुभवनद्वाराणीन्द्रियाणि ॥७॥ शब्दस्पर्श रस रूपगन्धा हि विषयाः ||८|| समाधीन्द्रियद्वारेण विप्रकृष्टसंनिकृष्टावबोधो ज्ञानम् ॥९॥ सुखं प्रीतिः ||१०|| तत्सुखमप्यसुखं यत्र नास्ति मनोनिवृत्तिः ॥ ११ ॥ अभ्यासाभिमान संप्रत्ययविषयाः सुखस्य कारणानि ॥ १२ ॥ | क्रियातिशयविपाक हेतुरभ्यासः ॥१३॥ प्रश्रयसत्कारादिलाभेनात्मनो यदुत्कृष्टत्वसंभावनमभिमानः ||१४|| असद्गुणे वस्तुनि तदगुणत्वेनाभिनिवेशः संप्रत्ययः ॥ १५ ॥ इन्द्रियमनस्तर्पणो भावो विषयः ||१६|| दुःखमप्रीतिः ॥१७॥ तद्दुःखमपि न दुःखं यत्र न संक्लिश्यते मनः ||१८|| दुःखं चतुविधं सहजं दोषजमागन्तुकमन्तरङ्ग' चेति ॥ १२॥ सहजं क्षत्तृषामनोभूभवं चेति ॥ २०॥ दोषजं वातपित्तकफवैषम्य संभूतम् ॥२१॥ आगन्तुकं वर्षातपादिजनितम् ॥२२॥ यच्चिन्त्यते दरिद्रन्यवकारजम् ||२३|| न्यक्कारायच्छविघासादिसमुत्यमन्तरङ्गजम् ॥ २४ ॥ न तस्यैहिकामुष्मिकं च फलमस्ति यः क्लशायसाभ्यां भवति मोतिवाक्यामृत का मूक सूत्र-पाठ १९७

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255