Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 221
________________ श्रधः परिक्लेशोऽथं हरणमक्रमेण दण्डपारुष्यम् ||३२|| एकेनापि व्यसनेनोपहतश्चतुरोऽपि राजा विनश्यति किं पुनर्नाष्टादशभिः ||३३|| १७. स्वामिसमुद्देशः धार्मिकः कुलाचाराभिजनविशुद्धः प्रतापवान्नयानुगतवृत्तिश्च स्वामी ||१|| कोपप्रसादयोः स्वतन्त्रः ||२|| आत्मातिशयं धनं वा यस्यास्ति स स्वामी ||३|| स्वाभिमूलाः सर्वाः प्रकृतयोऽभिप्रेतार्थ योजनाय भवन्ति नास्वामिकाः ॥४॥ा उच्छमूलेषु तरुषु किं कुर्यात् पुरुषप्रयत्नः ||५| असत्यवादिनो नश्यन्ति सर्वे गुणाः ||६|| 918 वक्चकेषु न परिजनो नापि चिरायुः ||७|| सप्रियो लोकानां योऽर्थं ददाति ||८|| स दाता महान् यस्य नास्ति प्रत्याशोपहतं चेतः ॥९॥ प्रत्युपकर्तुरुपकारः सवृद्धिकोऽर्थंन्यास इव तज्जन्मान्तरेषु च न केामूर्ण येषामप्रत्युपकारमनुभवनम् ||१०|| किं तया गया या न क्षरति क्षीरं न गर्भिणी वा ॥ ११ ॥ किं तेन स्वामिप्रसादेन यो न पूरयत्याशाम् ||१२|| क्षुद्रपरिषत्कः सर्पाश्रय इव न कस्यापि सेव्यः ॥ १३॥ अकृतज्ञस्य व्यसनेषु न सहन्ते सहायाः ||१४|| अविशेषज्ञो विशिष्टेनश्रीयते ॥१५॥ आत्मंभरिः परित्यज्यते कलत्रेणापि ||१६|| अनुत्साहः सर्वव्यसनानामागमनद्वारम् ||१७|| शौर्यममर्षः शीघ्रकारिता सत्कर्मप्रवणत्वमुत्साहगुणाः ||१८|| अन्यायप्रवृत्तस्य न चिरं संपदो भवन्ति || १२ || किचनकारी स्वैः परैर्वाभिहन्यते ॥२०॥ आज्ञाफलमैश्वर्यम् ॥ २१ ॥ राजाज्ञा हि सर्वेषामङ्घ्यः प्राकारः ||२२|| आज्ञा भङ्गकारिणं पुत्रमपि न सहेत ||२३|| कस्तस्य चित्रगतस्य च विशेषो यस्याज्ञा नास्ति ||२४|| राजाज्ञाविरुद्धस्य तदाज्ञां न भजेत् ||२५|| परममकार्यमश्रद्धेयं च न भाषेत ||२६|| वेषमाचारं वानभिज्ञातं न भजेत् ||२७|| attarai में राजनीति

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255