Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
संजातराज्यफुलक्ष्मीदीक्षाभिषेकं स्वगुणंः प्रजास्वनुरागं जनयन्तं रामानं नारायणमाहुः ॥१८॥ प्रवृद्धप्रतापतृतीयलोचनानलः परमैश्वर्यमातिष्ठमानो राष्ट्रकण्टकान् द्विषद्दानवान क्षेत्तुं यतते विजिगीषुभूपतिर्भवति पिनाकपाणिः ॥१९॥ उदासीनमध्यमविजिगीषु-अमिमित्रपाणिग्राहाकन्दासारान्तर्पयो यथासंभवगुणगणविभवतारतम्यान्मण्डलानामधिष्ठातारः ।।२०। अग्रतः पृष्ठतः कोणे वा संनिकृष्टे वा मण्डले स्थितो मध्यमादीनां विग्रहोतानां निग्रहे संहितानामनुग्रहे समर्थोऽपि केन जितकागोनालिन अपतो निलिगीषुमाणो य उदास्ते स उदासीनः ॥२१॥ उदासीनवदनियतमण्डलोऽपरभूपापेक्षया समधिकबलोऽपि कुतश्चित् कारणादन्यस्मिन नृपती विजिगीषुमाणे यो मध्यस्थभावमवलम्बते स मध्यस्थः।।२२।। राजात्मदेवद्रध्यप्रकृतिसंपन्नो नयविक्रमयोरधिष्ठानं विजिगीषः ॥२३॥ य एवं स्वस्याहितानुष्ठानेन प्रतिकूल्यमियति स एवारिः ॥२४॥ मित्रलक्षणमुक्कमेव पुरस्तात् ।।२५।। यो विजिगीषौ प्रस्थितेऽपि प्रतिष्ठमाने वा पश्चात् कोपं जनयति स पाक्षिणग्राहः ॥२६॥ पाणिग्राहाद्य: पश्चिमः स आक्रन्दः ॥२७॥ पाणिग्राहामित्रमासार आक्रान्दमित्रं च ॥२८॥ परिविजिगोषोर्मण्डलान्तविहितवृत्तिरुभयवेतनः पर्वताटवी कृताश्रयश्चातद्धिः ॥२९॥ अराजबीजो लुब्धः क्षुद्रो विरक्तप्रकृत्तिरन्यायपरो व्यसनी विप्रतिपन्नमित्रामात्यसामन्तसेनापतिः शत्रभियोक्तव्यः ॥३०॥ अनाश्रयो दुर्बलाश्रयो वा शत्रुरुच्छेदनीयः ॥३१॥ विपर्ययो निष्पोडनीयः कर्षयेद्वा ॥३२॥ समाभिजनः सहजशत्रुः ।।३३।। विरोधो विरोधयिता वा कृत्रिमः शत्रुः ॥३४॥ अनन्तरः शत्रुरेकान्तरं मित्रमिति नैषः एकान्तः कार्य हि मित्रत्वामित्रत्वयोः कारणं न पुनर्विप्रकर्षसनिकषों ॥३५॥ ज्ञानबलं मन्त्रशक्तिः ॥३६॥ बुद्धिशक्तिरात्मशक्तेरपि गरीयसी ॥३७।। शशकेनेव सिंहव्यापादनमत्र दृष्टान्तः ॥३८॥ कोशदण्डबलं प्रभुशक्तिः ।।३९॥ शूद्रकशक्तिकुमारौ दृष्टान्तौ ।।४०॥ विक्रमो बलं चोत्साहशक्तिस्तत्र शमो दृष्टान्तः ॥४१॥ नीतिवाक्यामृत का मूल सूत्रपाठ

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255