Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 245
________________ : शक्तित्रयोपचितो ज्यायान शक्तित्रयापचितो होनः समानशक्तित्रयः समः ॥ ४२ ॥ संधिविग्रह्यानासनसंश्रयद्वैधीभावाः षाड्गुण्यम् ॥४३॥ पणबन्धः संधिः ॥४४॥ अपराधो विग्रहः ॥४५॥ अभ्युदयो यानम् ||४६|| उपेक्षणमासनम् ||४७|| परस्यात्मार्पणं संश्रयः ॥४८॥ एकेन सह संधायान्येन सह विग्रहकरणमेकत्र वा शत्र संधानपूर्व विग्रहो द्वैधीभावः ॥ ४५९॥ प्रथमपक्षे संघीयमानो विगृह्यमाणो विजिगीषुरिति द्वैधीभावो दुध्या श्रयः ॥ ५० ॥ होयमानः पणबन्धेन संधिमुपेयात् यदि नास्ति परेषां विपणितेऽर्थे मर्यादोल्लङ्घनम् ॥५१॥ अभ्युच्चीयमानः परं विगृह्णीयाद्यदि नास्त्यात्मबलेषु क्षोभः ॥५२॥ न मां परो हन्तुं नाहं परं हन्तुं शक्त इत्यासीत् यद्यायत्यामस्ति कुशलम् ||५३।। गुणातिशययुक्तो याधाद्यदि न सन्ति राष्ट्रकण्टका मध्ये न भवति पश्चास्क्रोधः || ५४ || स्वमण्डलमपरिपालयतः परदेशाभियोगो विवसनस्य शिरोवेष्टनमिव ॥५५॥ रज्जुवलनमिव शक्तिहीनः संश्रयं कुर्याद्यदि न भवति परेषामामिषम् ॥५६॥ बलवद्भयादबलवदाश्रयणं हस्तिभयादेरण्डाश्रयणमित्र ॥५७॥ स्वयमस्थिरेणास्थिराश्रयणं नद्यां वमानेन बमानस्याश्रयणमिव ||१८|| वरं मानिना मरणं न परेच्छानुवर्तनादात्मविक्रमः ॥५९॥ आयतिकल्याणे सति कस्मिंश्चित्संबन्धे परसंश्रयः श्रेयान् ||६|| निधानादिवच राजकार्येषु कालनियमोऽस्ति ||११|| मेघदुत्थानं राजकार्याणामन्यत्र च शत्रोः संधिविग्रहाभ्याम् ||६२|| द्वेषीभावं गच्छेद् यदन्योऽवश्यमात्मना सहोत्सहते ॥ ६३ ॥ बलद्वयमध्पस्थितः शत्रुरुभयसिंहमध्यस्थितः करीव भवति सुखसाधवः ||६४|| भूम्यथिनं भूफलप्रदानेन संदध्यात् ॥ ६५ ॥ भूफलदानमनित्यं परेषु भूमिगता गतैव ||६६ || अवज्ञयापि भूमावारोपितस्तरुर्भवति बद्धलः ||६७|१ उपायोपपन्नविक्रमोऽनुरक्तप्रकृति रल्पदेशोऽपि भूपतिर्भवति सार्वभौमः ॥ ६८ ॥ न हि कुलागता कस्यापि भूमिः किंतु वीरभोग्या वसुन्धरा ॥ ६९ ॥ ઢ नीतिवाक्यामृत में राजनांवि

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255