Book Title: Mallinath Charitra Mahakavya Part 01
Author(s): Saumyayashashreeji,
Publisher: Kantivijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 12
________________ शोधननैपुण्यं बहवः कविकुञ्जरा व्यावर्णयांबभूवांसः । अतोऽपि चरितमिदं विशेषेण महत्त्वमचकलत् । ___ एतस्य श्रीमल्लिचरितस्य पुस्तकचतुष्टयमावां प्राप्तवन्तौ, तदर्थं च तदर्पयितॄन् नामग्राहमभिवन्दावहे१. श्रीमल्लिचरितमस्मद्गुरूणां श्रीशास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरीणां शुद्धदेश्यम् । २. श्रीमल्लिचरितमस्मद्गुरूणां पुण्यपत्तनस्थडक्कनकॉलेजाख्यपुस्तकालयस्य, नात्यशुद्धम् । ३. श्रीमल्लिचरितमस्मद्गुरूणां मुनिमोहनलालजिपुस्तकालयस्य, अशुद्धम् । ४. श्रीमल्लिचरितमस्मद्गुरूणां स्तम्भनपुरस्थधर्मशालाभिधभाण्डागारस्य, अपूर्णम्, शुद्धप्रायं च । तदेवं पुस्तकचतुष्टयमाश्रित्य संशोधितम्, तत्र तत्र पाठान्तरितं च चित्ताह्लादकमिदं चरितं सकर्णा निजविमलनेत्रसन्निकर्षाद् नाययन्तु स्वीयनेत्रे पावित्र्यम् । पठित्वा चैतत् त्यजन्तु कपटनाटकपाटवपटं पटवः, मुनयश्च लोकयन्तु कर्मनरपतिवैचित्र्यम्, मुच्यतां च सकलो लोकः, उत्साहयन्तु चास्मत्परिश्रान्तिम्, संशोधयन्तु सूचयन्तु च मतिमान्द्यसहभूनि दृग्दोषहेतूनि सीसकाक्षरयोजकजातानि च दूषणानि हंसन्तः समन्ततः सन्तः । अस्य च मुद्रणादिव्ययदातुः परमोदारश्रीश्रेष्ठिप्रवरगोकुलभाइतनुजनुषो वदान्यवरेण्यस्य श्रीश्रेष्ठिवरमणिलालस्य परमं धन्यवादं समर्पयावः ।। इति निवेदयतोहरगोविन्द-बेचरदासौ ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 460