________________
शोधननैपुण्यं बहवः कविकुञ्जरा व्यावर्णयांबभूवांसः । अतोऽपि चरितमिदं विशेषेण महत्त्वमचकलत् । ___ एतस्य श्रीमल्लिचरितस्य पुस्तकचतुष्टयमावां प्राप्तवन्तौ, तदर्थं च तदर्पयितॄन् नामग्राहमभिवन्दावहे१. श्रीमल्लिचरितमस्मद्गुरूणां श्रीशास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरीणां
शुद्धदेश्यम् । २. श्रीमल्लिचरितमस्मद्गुरूणां पुण्यपत्तनस्थडक्कनकॉलेजाख्यपुस्तकालयस्य,
नात्यशुद्धम् । ३. श्रीमल्लिचरितमस्मद्गुरूणां मुनिमोहनलालजिपुस्तकालयस्य, अशुद्धम् । ४. श्रीमल्लिचरितमस्मद्गुरूणां स्तम्भनपुरस्थधर्मशालाभिधभाण्डागारस्य, अपूर्णम्, शुद्धप्रायं च ।
तदेवं पुस्तकचतुष्टयमाश्रित्य संशोधितम्, तत्र तत्र पाठान्तरितं च चित्ताह्लादकमिदं चरितं सकर्णा निजविमलनेत्रसन्निकर्षाद् नाययन्तु स्वीयनेत्रे पावित्र्यम् । पठित्वा चैतत् त्यजन्तु कपटनाटकपाटवपटं पटवः, मुनयश्च लोकयन्तु कर्मनरपतिवैचित्र्यम्, मुच्यतां च सकलो लोकः, उत्साहयन्तु चास्मत्परिश्रान्तिम्, संशोधयन्तु सूचयन्तु च मतिमान्द्यसहभूनि दृग्दोषहेतूनि सीसकाक्षरयोजकजातानि च दूषणानि हंसन्तः समन्ततः सन्तः ।
अस्य च मुद्रणादिव्ययदातुः परमोदारश्रीश्रेष्ठिप्रवरगोकुलभाइतनुजनुषो वदान्यवरेण्यस्य श्रीश्रेष्ठिवरमणिलालस्य परमं धन्यवादं समर्पयावः ।।
इति
निवेदयतोहरगोविन्द-बेचरदासौ ।