Book Title: Mallinath Charitra Mahakavya Part 01
Author(s): Saumyayashashreeji,
Publisher: Kantivijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 11
________________ व्यावर्णिताः । तत्र तत्र चानुरूपं सुन्दरं सकलरसावर्षि संवर्णनमपि पाठकहृदयकोशप्रवेशं प्रापितम् । समावेशितानि चात्र महाकाव्यनिखिललक्षणानि । इति सवैरेव प्रकारैरयं चरितग्रन्थः चरितग्रन्थेषूत्तमं स्थानं लम्भितः । इमे चाचार्यपूज्या अन्यानपि कल्पनिरुक्त-श्रीपार्श्वचरितप्रभृतीन् ग्रन्थान् जग्रन्थुः, व्यशूशुधंश्च धर्मविधिवृत्तिप्रमुखानल्पग्रन्थान् । एतेषां च सूरिवराणां ग्रन्थग्रन्थितृत्वं ग्रन्थशोधकत्वं चेदमुभयं तदपूर्वदूष्य-वैदूष्य-लोकापकारकत्वाऽन्यथानुपपद्यमानं तेषां परमकारुणिकत्वं सकलशास्त्रनिष्णातत्वं च स्पष्टं निष्टङ्कयति । संशोधकाश्चास्य शोधकप्रकाण्डतां गताः श्रीप्रद्युम्नसूरयः, येषां १. यदाह धर्मकुमारपण्डितः स्वीये शालिभद्रचरित्रे प्रतिप्रक्रमम् "श्रीशालिचरिते धर्मकुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे" अन्त्यप्रक्रमे च "इयं कथा वृद्धकुमारिकेव सदूषणा भूषणवर्जिताऽऽसीत् । प्रद्युम्नदेवस्य परं प्रसादाद् बभूव प्राणिग्रहणस्य योग्या" ॥१५३।। तेषां च श्रीविनयचन्द्रसूरिकृतं श्रीमल्लिनाथमहाकाव्यम्, श्रीप्रभाचन्द्राचार्यविरचितं श्रीप्रभावकचरित्रम्, श्रीदेवेन्द्रसूरिप्रणीतः श्रीउपमितिभवप्रपञ्चकथासारोद्धारः, श्रीरत्नप्रभसूरिविहिता श्रीकुवलयमालाकथा, श्रीबालचन्द्रसूरिनिर्मिता श्रीउपदेशकन्दलीटीका श्रीविवेकमञ्जरीटीका, श्रीउदयप्रभसूरिरचिता उपदेशमालाकर्णिकाटीका चेत्यादितात्कालिकबहुग्रन्थानां संशोधकत्वेन ग्रन्थसंशोधननैपुण्यम्, श्रीसमरादित्यसंक्षेपादेः स्वतन्त्रं संविधानेन च शास्त्रवैशारद्यं च सुतरां प्रतीतम् । ये पुनस्तदानीन्तनाचार्यैबाढं संमानिता बभूवुरित्यपि श्रीमानतुङ्गाचार्यविरचितश्रीश्रेयांसनाथचरित्रान्तर्गतेन "शिष्य: श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रनुजो ज्यायान् श्रीजयसिंहतः प्रतिभया श्रीवस्तुपालस्तुतः । अस्मद्गोत्रमहत्तरः कविगुरुः प्रद्युम्नसूरिप्रभुविद्वदवृन्दकवित्वशोधनधनो ग्रन्थं मुदाऽशोधयत्" ॥१॥ इति पद्येन व्यक्तमाविर्भवति ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 460