Book Title: Mallinath Charitra Mahakavya Part 01
Author(s): Saumyayashashreeji,
Publisher: Kantivijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 10
________________ ज्ञात्वाऽनघं पर्युषणाभिधाने कल्पस्य किंचिद् विदधे निरुक्तम्" ॥२॥ किञ्च, श्रीधर्मविधिग्रन्थवृत्तिविधायकाः श्रीउदयसिंहसूरयोऽप्येतानेवाचार्यवर्यान् महाकवित्वेन ग्रन्थशोधकशिरोमणित्वेन च प्रख्यापयन्ति तथा च धर्मविधिप्रशस्तिः " स श्रीमाणिक्यप्रभगुरुसेवी स्वगुरुबन्धुसंमत्या । आचार्य उदयसिंहश्चक्रे श्रीधर्मविधिवृत्तिम् ॥११॥ श्रीमत्पूज्यरविप्रभमुनिपतिपदकमलमण्डनमरालः । वृत्तिमशोधयदेनां महाकविर्विनयचन्द्राख्यः ॥ १२ ॥ या शासनपुष्टिपरा जननीवद् भव्यसंतति पाति । सा श्रीशासनदेवी शिवतातिर्भवतु संघस्य ॥१६॥ रस-मङ्गल-सूर्य(१२८६) - मिते वर्षे श्रीविक्रमादतिक्रान्ते । चक्रे चन्द्रावत्यां वृत्तिरियं संघसान्निध्यात् ||१७|| " एभिः सकलैः प्रमाणैरेषां सूरिवराणां समयो द्वादशशताब्द्यादिभूतस्त्रयोदशशताब्द्यन्तभूतश्चेति नितरां निश्चीयते । सरसं समुपवर्णितं चात्र गगनकुसुमायमानमनोमनोरथलक्षजलसंकुलं दम्भस्तम्भानेकनक्रचक्रचक्रवालबलप्रबलं दुःखात्मनैकदुष्करमकरप्रकरप्रपूरितं मिथ्याहंकाराकारभूरिभूधराधृष्यकूटविकटं सर्वत्र दुर्योधक्रोधप्रसर्पत्सरीसृप - सर्पणभीषणमनादिगभीरापारसंसारपारावारं संशोष्य, संभूष्य च स्वं निखिलनिर्मललोकाऽलोकलोकिन्या विज्ञानश्रिया, प्रतिष्ठाप्य च सकललोकाऽमित हितावहं संसारोत्तारकं तीर्थम्, प्रतिबोधय च गाढमिथ्यात्वनिशानिद्रावशीभूतप्रभूतभूतगणान्, उत्तार्य च कांश्चन संसारसागरात् प्रापय्य च प्रवरशिवनगरनिकटम्, परमामनश्वरीमितरदेवदवीयसीं गरीयसीं पदवीं प्राप्तानां श्रीमल्लिस्वामिजिनेश्वराणामामूलचूलमदभ्रपापाभ्रधवित्रं पुष्करारिष्टमललवित्रं निसर्गगुणगणपवित्रं चरित्रम् । अन्तर्भावितानि चात्र श्रीमल्लिमित्रषट्ककथानकानि । अन्या अपि लोकप्रबोधविधायिन्यो बह्व्यः कथाश्च 7

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 460