Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्र पुरा श्रीनेमिजिनोपदेशात् श्रीकृष्णनृपो द्वारकाया बहिनिर्गमनियमं कृतवान् । इत्यादि श्रीगुरूपदेशं सफलतां नयन् कुमारपाल श्रीचौलुक्योऽपि मया वर्षामासचतुष्टये श्रीपत्तनपुरप्रतोलीम्यः परतो न गन्तव्यमिति नियमं जग्राह । तथा--दर्शनं सर्व- प्रबन्धः
चैत्यानां, गुरोरपि च वन्दनम् । मुक्त्वा पुरेऽपि न प्रायो, भ्रमिष्यामि घनागमे ।। १ ।। वाचा युधिष्ठिरः श्रीमान् , निज।१७२॥
मङ्गीकृतं व्रतम् । न तत्तत्याज चौलुक्यसिंहः कार्ये महत्यपि ।। २ ।। स तस्य नियमः सर्वत्र तादृग् पप्रथे। ___ अथ तं तथाऽभिग्रहं गूर्जरसमृद्धि च चरेभ्यो ज्ञात्वा गूर्जरदेशभञ्जनाय गर्जनेशः शकानेकानीकदुर्द्धरः प्रयाणमकरोत् । तदEs वसरे गर्जन्यागतचरैविज्ञप्तम्-श्रीचौलुक्य ! तवाभिग्रहं श्रुत्वा गर्जनप्रभुर्देशादिभङ्ग चिकीर्षुरागच्छन्नस्तीति चरविज्ञप्ति श्रुत्वा ।
चिन्ताक्रान्तोऽमात्यसहितो वसतिमभ्येत्य गुरुमब्रवीत्--चरैरद्य प्रभो ! प्रोक्तं, तुरष्काधिपतिः स्वयम् । प्रस्थाय गर्जनादत्रागच्छन्नस्ति महाबली ।। १ ।। सहिष्णुरपि तं भक्तुमसहिष्णुरिवास्म्यहम् । वर्षारात्रे गृहान्नैव, बहिर्यामीत्यभिग्रहात् ॥२ ।। यद्यहं संमुखं न यामि तदा देशभङ्गे लोकपीडा, गमने च नियमोल्लङ्घनम् । गुरुः--श्रीचौलुक्य ! त्वदाराधि
तधर्म एव सहायी तव, चिन्ता सर्वथाऽपि न कार्या ।। इत्या श्वास्य नृपं सूरिः पद्मासनमधिश्रितः । परमं दैवतं Pad दन्तातुं प्रचक्रमे ।। ३ ।। अतिक्रान्ते मुहूर्तेऽथ, समायान्तं नभोऽध्वनां । पल्यङ्कमेकमद्राक्षीदिव्यक्षौमास्तृतं नृपः
॥ ४ ॥ अम्बरेऽसौ निरालम्बो, विद्याधरविमानवत् । कथमेतीति विस्मेरः, स तं मुहुरवेक्षत ।। ५ ।। गगनात्तावदुत्तीर्य, ॥१७२।। स पल्यङ्कः क्षणादपि । गरोः पुरः स्थिरस्तस्थौ, सुप्तकपुरुषाश्रितः ॥ ६ ॥ पल्यङ्कः कोऽयमत्रायं, कः पुमानिति वेह किम् ? । इति प्रश्नपरं भूपं, बभाषे गुरुपुङ्गवः ।। ७ ।। तवोपर्यापतन्योऽस्ति, शकाधीशो महाबली । पल्यङ्कशयितः सोऽयं,
EXXXXXXXXXXXXXXXXXXXXXXXXX

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238