Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 237
________________ ॥२३१॥ GALLERIEN आकर्ण्य प्रतिकाननं पशुगणा चौलुक्यभूपव्ययं, क्रन्दन्तः करुणं परस्परमदो वक्ष्यन्ति निःसंशयम् । योऽभून्नः कुलवर्द्धनः स सुकृती राजर्षिरस्तं ययौ, यूयं यात दिगन्तरं झटिति रे ! नो चेन्मृता व्याधतः ।। ३ ।। नाभून्न भविता चात्र, हेमसूरिसमो गुरुः । श्रीमान् कुमारपालच, जिनभक्तो महीपतिः ।। २ ।। नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी । समं मनोभिस्तिमिकेकि तित्तिरिस्तभोरणक्रोडमृगादिदेहिनाम् || १ || सत्त्वानुकम्पा न महीभुजां स्यादित्येष क्लृप्तो वितथः प्रवादः । जिनेन्द्रधर्मं प्रतिपद्य येन, श्लाघ्यः स केषां न कुमारपालः || २ || लोको मूढतया प्रजल्पतु दिवं राजर्षिरध्यषिवान्, ब्रूमो विज्ञतया वयं पुनरिहैवास्ते चिरायुष्कवत् । - स्वान्ते सच्चरितैर्नभोऽब्धिमनुभिः कैलासवैहासिकैः प्रासादैश्व बहिर्यदेष सुकृती प्रत्यक्ष एवेक्ष्यते ॥ ३ ॥ फ्र ॥ अथ प्रशस्तिः ॥ प्रबन्धो योजितः श्रीमत्कुमारनृपतेरयम् । गद्यपद्य नवैः कैश्चित् कश्चित्प्राक्तननिर्मितैः ॥ १ ॥ श्रीसोमसुन्दरगुरोः, शिष्येण यथाश्रुतानुसारेण । श्रीजिनमण्डनगणिना, द्वयङ्कमनु १४९२ प्रमितवत्सरे रुचिरः ||२॥ 60000000 00000000 0000 0000 0000 0000 00000000 00000000000000000000 0000 0000 0000 00000000 0000 0000 इति श्रीसोमसुन्दसूरीश्व रशिष्य श्रीजिनमण्डनोपाध्यायैः श्रीकुमारपालप्रबन्धो यथा दृष्टश्रुतानुसारेण योजितः ॥ 609 0000 00000000 0000 00000000 0000 0002 0000 0 000000৯0% 80% ১000 ♠♠00000000000000 ********* ।। २३१ ।।

Loading...

Page Navigation
1 ... 235 236 237 238