Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।२२९।।
त्यमृत्स्नायां गृह्यमाणायां "हेमखड्ड" इति प्रसिद्धा सा पत्तनेऽस्ति । ।
राजा लुठति पादाने, जिह्वाग्रे च सरस्वती। श्रियेऽस्तु शश्वत् स श्रीमान् , हेमसूरिनवः शिवः ।। १॥ कति न व्रतिनः पुराऽभवन् , भुवनोद्भाव (स) भानुभानवः । अभयामृततर्पिताङ्गभृन्न पुनः कश्चन हेमसूरिवत् ।। २ । प्राणित्राणे व्यसनिनां, शान्तिसुव्रतनेमिनाम् । हेमाचार्योऽत्र चातुर्ये, तुर्यः किं तुर्यदुर्युगे ॥३॥ अथ राजा श्रीगुरुविरहेणास्तोकशोकाश्रुजलाविललोचनः श्मशाननिभों राजसभां मन्यमानस्तत्र नायाति । दुर्गतिचिह्नान्येतानीति राजचिह्नानि न धारयति । संसारकारीति राजव्यापार न करोति । भोगांश्च रोगानिव मन्यते । लास्यहास्यादिविमुखः सकलकलाकूशलरनेकधा विनोद्यमानोऽपि न क्वापि रतिमाप । अन्यदा सान्ध्यविधिकृते सन्ध्यासमयमावेदयितं केनापि विदुषाऽपाठि
ध्वान्तं ध्वस्तं समस्तं विरहविगमनं चक्रवाकेषु चक्रे, संकोचं मोचितं द्राग किल कमलवनं धाम लुप्तं ग्रहाणाम् । प्राप्ता पूजा जनेभ्यस्तदनु च निखिला येन भुक्ता दिनश्रीः, सम्प्रत्यन्तङ्गतोऽसौ हतविधिवशतः शोचनीयो न भानुः ॥२॥ इत्याकर्ण्य राजा शोकं किंचित्स्तोकं कृत्वा श्रीगुरूणां गुणान् स्मारं स्मारं सुचिरमिदमवादीत्श्रीसूरीश्वरहेमचन्द्र ! भवतः प्रक्षाल्यपादौ स्वयं, स्वर्धेनोः पयसा विलिप्य च मुहुः श्रीखण्डसान्द्रद्रवैः । । । अर्चामोऽम्बुदमौक्तिकर्यदि तदाऽप्यानण्यमस्तु क्व नो, विश्वेश्वर्यदजैनधर्मविविधाम्नायाप्तिहेतूह्यम् ॥ १॥ श्रीहेमचन्द्रप्रभुपादपद्म, वन्दे भवाब्धेरत रणकपोतम् । ललाटपट्टान्नरकान्तराज्याक्षरावली येन मम व्यलोपि ।।२।।
||२२

Page Navigation
1 ... 233 234 235 236 237 238