Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
कुमारपाल
।।२२८।।
मे, भगवन् ! धर्ममात्रदः । जीवितव्यप्रदः किन्तु ततस्त्वत्तोऽनृणः कथम् ।। ३ ।। त्वयि स्वर्गोन्मुखे स्वामिन् !, कोऽधुना शिक्षयिष्यति ? | मामखण्डतमं पुण्यप्रक्रियाकाण्डताण्डवम् || ४ || अगाधे मोहपाथोधी, पर्यन्ते मज्जतो मम । निर्यामणाकरालम्बं, त्वां विना कः करिष्यति ।। ५ ।। इति भूभृद्विलापेन, विभिन्नहृदयः प्रभुः । नेत्रकूलंकषान् बाष्पान्, संनिरुध्य कथंचन ।। ६ ।। उत्थाप्य चातिकष्टेन, पदलग्नं तमात्मनः । ऊचे वाचं शुचीं सौरसैन्धवीलहरीमिव ।। ७ ।। आजन्म राजन् ! निर्व्याजभक्तेऽहं हृदि तावके । समुत्कीर्ण इव स्वर्गं गतोऽपि स्यां पृथग् नहि || ८ || मनः शुद्धया समाराद्धजिनधर्मस्य ते पुरः । मोक्षोऽपि नास्ति दुर्लम्भः, सद्गुरुस्तु किमुच्यते ? ।। ९ ।। अस्मदुक्त्त्याऽर्हतं धर्मं, प्रपद्य क्षितिमण्डले । कृत्वा च तस्य साम्राज्यं, नापर्णस्त्वमभूः कथम् ।। १० ।। इत्यादिवचोभिराश्वासितश्रीकुमारपालनृपविधीयमाननानोत्सवर - चनः । निरञ्जनं निराकारं सहजानन्दनन्दितम् । निरूप्य मनसा नित्यं स्वरूपं पारमेश्वरम् ।। १ ।। कृत्वा तन्मयमा त्मानं त्यक्त्वा सर्वं स्वतः परम् । स्वात्मावबोधसंभूतज्योतिषेति व्यभावयन् ।। २ ।। यथा
आत्मन् देवस्त्वमेव त्रिभुवनभवनोद्योतिदीपस्त्वमेव, ब्रह्मज्योतिस्त्वमेवाखिलविषयसमुज्जीवनायुस्त्वमेव । कर्ता भोक्ता त्वमेव व्रजसि जगति च स्थाणुरूपस्त्वमेव, स्वस्मिन् ज्ञात्वा स्वरूपं किमु तदिह बहिर्भावमाविष्करोषि ॥ १ ॥ इति संचिन्त्य चरमोच्छ्वाससमये दशमद्वारेण प्राणोत्क्रान्तिमकार्षुः ।। संव्बत् ११४५ कार्तिक पूर्णिमानिशि जन्म श्रीहे - मसूरीणां, संव्वत् ११५४ दीक्षा, संव्वत् १९६६ सूरिपदम्, संव्वत् १२२९ स्वर्गः । तदनन्तरं प्रभोर्वपुषश्चन्दनागरुकर्पूरादिभिः कृते संस्कारे तद्भस्म पवित्रमिति कृत्वा राज्ञा तिलकमिषेण नमश्चक्रे ततः समस्तसामन्तैस्तदनु नगरलोकैश्च तंत्र
प्रबन्धः ।
।। २२८।।

Page Navigation
1 ... 232 233 234 235 236 237 238