Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
कुमारपाल
।। २२६।।
स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुर्व्याधितप्रबोधम् ||२|| श्रीकुमारपालदेवेन तु द्वासप्ततिसामन्ताः स्वाज्ञां ग्राहिताः । अष्टादशदेशेष्वमारिपटहो दापितः । चतुर्दशदेशेषु मैत्रीबलेनार्थबलेन च जीवरक्षा कारिता । चतुश्चत्वारिंशदधिकचतुर्दशशत नवीनजिनप्रासादेषु कलशाधिरोपणं कारितम् । षोडशसहस्रजीर्णोद्धारेषु कलशध्वजारोपोऽकारि । सप्तभिः श्रीतीर्थयात्राभिरात्मा पवित्रितः । प्रथमयात्रायां नवलक्षसुवर्णमूल्यनवरत्नैः श्रीजिनः पूजितः । एकविंशतिश्रीज्ञानकोशलेखनम् । द्वासप्ततिलक्षमितद्रव्यपत्रं पाटितम् । अष्टनवतिलक्षमितद्रव्यमौचित्ये दत्तम् । द्वासप्ततिलक्षमितः श्राद्ध करो मुक्तः । भग्नसाधर्मिकस्य गृहागतस्यैक सहस्रदीनारदानम् । एकस्मिन् वर्षे कोटिर्लग्ना । एवं बहुवर्षाणि यावत् । आजन्मपरनारीसहोदरशरणागतवज्रपञ्जरविचारचतुर्मुखपरमार्हत राजर्षिजीवदानजीमूतवाहनादीनि जगद्विस्मयावहानि बिरुदानि लब्धानि । सप्तव्यसनानि निवारितानि । श्रीसङ्घभक्तिसाधर्मिकवात्सल्यत्रिर्जिनार्चाद्विरावश्यकपर्वदिन पौषधादानशासनप्रभावनादीनोद्धारसत्रागारपरोपकारादिपुण्यान्यनेकधा कृतानि ||
कुमारपालभूपस्य, किमेकं वर्ण्यते क्षितौ । जिनेन्द्रधर्ममासाद्य, यो जगत्तन्मयं व्यधात् ।। १ ।। अत्रान्तरे च निर्व्यूढराजव्यापारौ विहितानेकनवीनप्रासादजीर्णोद्धारपरोपकार दीनोद्धारादिपुण्यकृत्यों श्रीजिनशासनप्रभावको मन्त्रिबाहडदेवाम्बडौ स्वर्जग्मतुः । अत्र चार्थिसार्थप्रार्थनाकल्पवृक्षं मन्त्र्याम्बडदेवं प्रति कविवाक्यम्-
वरं भट्टैर्भाव्यं वरमपि च खिङ्गंर्धनकृते, वरं वेश्याचार्यैर्वरमपि महाकूटनिपुणैः । दिवं याते दैवादुदयनसुते दानजलधौ न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये ।। १ ।।
प्रबन्धः ।
॥२२६॥

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238