Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 233
________________ ।।२२७॥ अथैवं काले कवलितानेकपुरुषरत्ने श्रीकुमारपालभूपाल : श्रीहेमसूरिश्व कृतकृत्यो महसा तपसा वयसा च वृद्धौ जाती, परं हेमसूरिगच्छे विरोधः रामचन्द्रगुणचन्द्रवृन्दमेकतः, एकतो बालचन्द्रः । तस्य च राजभ्रातृव्याजयपालेन सह मंत्री ।। अथ वार्द्ध क्यमालोक्य चौलुक्यपृथिवीपतिः । स्थित्वानुरहसं रात्रौ गुरुं प्रत्येवमूचिवान् ।। १ ।। सत्यपि त्वादृशे सर्वविद्याम्भोधी गुरौ मम । फलं गार्हस्थ्यधर्मस्य, नाभाग्यैस्तनयोऽजनि ।। २ ।। दिने दिने जरा चैषा, जनयन्ती कृशाङ्गताम् । ओजायते समं राज्यलक्ष्मीदानार्हचिन्तया || ३ || ददाम्यजयपालाय, स्वराज्यं भ्रातृसूनवे । उत प्रतापमल्लाय, दौहित्राय निवेद्यताम् ।। ४ ।। ततो विमृश्य सूरिभिरभाणि राजन् ! भ्रातृव्यो न योग्यो दुराशयत्वात्सत्सङ्गरहितत्वादधर्मनिष्ठत्वादिकारणैर्न बहुराजवर्गीयप्रजासंमतः भ्रातृव्यात्तु त्वत्कारितधर्मस्थानक्षयः कियानस्ति । प्रतापमल्लः प्रजाप्रियन्यायधर्मनिष्ठत्वादिगुणैर्योग्यः । यदुक्तम् — धर्मशीलः सदा न्यायी, पात्रे त्यागी गुणादरः । प्रजानुरागसंपन्नो, राजा राज्यं करोति सः ॥ १ ॥ एवं मन्त्रे कृते बालचन्द्रेण स्वरूपमेतदजयपालाय न्यवेदि । तस्य च तदनु राजचन्द्रादिषु श्रीचौलुक्ये च महान् द्वेषः । अत्रान्तरे चतुरशीतिवर्षायुषः श्रीहेमाचार्याः परिज्ञातनिजावसानसमया: समग्र श्रीसङ्घ स्वकीयगच्छं श्रीकुमारपालभूपं चाहूय, राजन् ! तवापि षण्मासीशेषमायुरस्तीति प्रज्ञापनां कृत्वा दशधाऽऽराधनां विधाय समाधियोगसाधितस्वकृत्याः, तदवसरे च-- पतित्वाज्य पदाम्भोजे, राजर्षिः क्षामणाक्षणे । बाष्पायमानो नेत्राभ्यां प्रभुमूचे, सगद्गदम् ।। १ ।। ईषल्लम्भं प्रतिभवं स्त्रैणराज्यादिकं खलु । कल्पद्रुरिव दुष्प्रापस्त्वादृग् भद्रङ्करो गुरुः ।। २ ।। न केवलमभूस्त्वं ।।२२७॥

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238