Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 192
________________ प्रबन्धः मारपाल ।१८६।। आरंभपसत्ताणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो, दव्वथए कूवदि→तो ।। १ ।। न च धर्मार्थं धनोपार्जनं युक्तम् । यतः-- धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाच्च पङ्कस्य, दूरादस्पर्शनं वरम् ॥ १॥ इति ।। न च वापीकूपतडागादिखननवदशुभोदर्कमेतत् , अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिहेतुतया शुभोदर्कमेव ब्रह्मेन्द्रादिवत् । यदाह-- शिखरोपरि यत्राम्बाऽवलोकनशिरस्तु रङ्गमण्डपके । शम्बो बलानके स्यात्सिद्धिविनायकः प्रतिहारः ।। १॥ ___ श्रीब्रह्मेन्द्रेण रैवतके पूर्वाभिमुखः प्रासादोऽकारीति । षट्कायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः-- जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अज्झत्थविसोहिजुत्तस्स ।। १ ।। यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिस्तस्य मा भूजिनबिम्बविधानमपि । यदाह-- देहाइनिमित्तंपि हु, जे कायवहंमि इह पयट्टन्ति । जिनपूया कायवहंमि तेसिमपवत्तणं मोहो ॥१॥ इति ॥ तथा जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदमहामन्त्रायमाणो धर्माधर्मकृत्याकृत्यगम्यागम्यसारासारादिविवेचनहेतुः संतमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । जिनागमबहुमानिनां च देवगुरुधर्मादयोऽपि बहुमता भवन्ति । केवलज्ञानादपि जिनागम एव प्रामाण्येनाति KXXXXXXXXXXXXXXXXXXXXXX ॥१८६।। *

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238