Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
कुमारपाल
।१८४॥
पासाईया पडिमा, लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएइ मणं, तह निजरमो वियाणाहि ॥१॥ तथा-- बिम्बानि श्रीजिनेन्द्राणां मणिरत्नश्च हेमभिः । रूप्यैः काष्ठदृषद्भिर्वा मृदा वा चित्रकर्मणा ॥१॥
*प्रबन्धः । एकागुष्ठादिसत्सप्तशताङ्गुष्ठमितानि यः । कारयत्यत्र भावेन, सर्वपापैः प्रमुच्यते ।।२।। मेरो रुगिरि न्यः, कल्पद्रों परो द्रुमः । न धर्मो जिनबिम्बाना, निर्माणादपरो गुरुः ॥ ३ ॥ धनादिव्ययशक्तौ पञ्चशतधनुःप्रमाणाः प्रतिमाः कार्यन्ते । सर्वथाऽपि धनाद्यप्राप्तावेकाङ्गुलमपि बिम्बं कारितं मुक्तिसुखायापि ॥ यतः--
अगुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानवृषभादिजिनेश्वराणाम् ।
स्वर्गे प्रधानविपुद्धिसुखानि भुक्त्वा, पश्चादनुत्तरपदं समुपैति धीरः ॥ १॥ ___तथा निष्पन्नस्य श्रीजिनबिम्बस्य शास्त्रोक्तविधिना निज़विभवानुमानेन महोत्सवैः शुद्धब्रह्मचारिचारित्रिगुरुपा - प्रतिष्ठापनम् , पञ्चाष्टसर्वोपचारपूजाप्रकारैरभ्यर्चनम्, नित्यं यात्राविधानम् , यथाप्रस्तावं विशिष्टाभरणभूषणम् , दमयन्त्यादिवद्विचित्रपञ्चवर्णवस्त्रैः परिधापनम् । यदाह-- • गन्धर्माल्यविनिर्यद्वहुलपरिमलरक्षतेधूपदीप-नैवेद्य : प्राज्यभेदैश्चरुभिरुपहितैः पाकपूतैः फलश्च । ___ अम्भःसंपूर्णपात्ररिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ।।१।। (स्रग्धरा)
तथा- वस्त्रैर्वस्त्रविभूतयः शुचितरालङ्कारतोऽलङ्कृतिः, पुष्पैः पूज्यपदं सुगन्धितनुता गन्धैजिने पूजिते ।
॥१८४॥

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238