Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥२११॥
***********
ल्यानि, दुरापाणि नृपैरपि । एतानि त्रीणि रत्नानि कुतस्त्वमुपलब्धवान् ।। ६ ।। लब्धवांश्चेत्कथं पुण्यकर्मण्येवं वितीर्णवान् । स्थाने स्थाने हि तद्रत्नं, त्वद्वद्दत्ते न कश्चन ॥ ७ ॥
ततो जगडो जगौ — राजन् ! मधुमतीपुर्यां प्राग्वाटज्ञातीयमन्त्रिहंसस्य मत्पितुः पूर्वजक्रमायातं रत्नपञ्चकमासीत् । स तु मत्पिता यात्रां चिकीर्षुरपि तादृग्महत्सङ्घयोगाभावेनाकृतयात्र एव स प्रान्तसमये इदं रत्नत्रयं श्रीशत्रुञ्जय रैवतदेवपत्तनेषु क्रमाद्देयं भवता, द्वयेन च स्वनिर्वाह: कार्य इत्युक्त्वा परीसुरजायत । तद्वचसा स्वपितुः पुण्यव्यये रत्नत्रयेणेन्द्रमाला परिदधे मया । रत्नद्वयमिदं तु सर्वतीर्थाधारश्रीसङ्घस्वामिनस्तव भवतु । एवमहं श्रीसङ्घवात्सल्येन कृतकृत्यों भवामीत्युक्त्वा राज्ञः पद्महस्ते मुक्तवान् । राजापि तस्य भक्तिविनयौदार्यादिगुणचमत्कृतचित्तः श्रीसङ्घसमक्षं रत्नद्वयं दर्शयन् प्राह--नाहं शस्यो महीशोऽपि शस्योऽयं वणिगप्यलम् । यो माणिक्यमयीं पूजां तनोति त्रिजगद्गुरोः ॥ १ ॥ धन्यस्त्वं श्राद्धकोटीर !, प्रथमः पुण्यकारिणाम् । ऐन्द्रं पदं यदेवं त्वं प्राप्तस्तीर्थत्रयेऽप्यहो ! ।। २ ।। इत्यादि श्लाघयित्वा स्वार्द्धासने निवेश्य सुवर्णाभरणपट्टकूलादिभिः सत्कृतः सार्द्ध कोटिद्वयमितं धनं दापयित्वा रत्नद्वयं गृहीतम् ॥ तन्मध्यनायकीकृत्य, हारयुग्मं विधाप्य च । शत्रुञ्जये रैवते च प्रेषीत्पूजार्थमर्हतोः ।। ३ ।। ततः प्रस्थितो महोत्सवः
पत्तनमलश्वकार । तत्र च --
पडिलंभंते सङ्घ, दिट्ठमदिट्ठे अ साहु सित्तुंजे । कोडिगुणं च अदिट्ठे, दिट्ठे य अनंतयं होइ ॥ १ ॥ इत्यादि स्मरन् श्रीसङ्घ सौवर्णाभरणपट्टकूलादिप्रदानैः सत्कृत्य यात्रिकान् विससर्ज । अथ तीर्थयात्रापवित्रात्मा
****
।।२११।

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238