Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
।२१९॥
XXXXXXXXXXXXXXXXX
पृच्छयतामेवं, जल्पिते गुरूणा नृपः । प्रैषीदाप्तजनं तत्र, कौतुकी येन नालसः ॥७॥ स गत्वैकशिलास्थानमोढराङ्गजसद्मनि । तां दासीं स्थिरदेव्याल्यां, पृष्ट्वा तद्वत्तमादितः ॥ ८॥ दृष्ट्वा श्रीवीरचैत्यं च, स्वयमोढरकारितम् । आगत्य च महीभत्रे, जगौ सर्व यथास्थितम् ॥ ९॥ युग्मम् ॥ प्रतीतोऽथ नृपः सङ्घप्रत्यक्षं गुरवे मुदा । बिरुदं कलिकालश्रीसर्वज्ञ इति दत्तवान् ।। १०॥ श्रीसिद्धराजेन सह बैरकारणं ज्ञात्वा चिन्तितं राज्ञा मनसि, अहो ! दारुणः संसारः ।।
इक्कमरणाउ बीहसि, अणंतमरणे भवंमि पाविहिसि । जम्हा अणेगकोडीजीवा विणिवाइया तुमए ॥ १॥
थेवदुहस्सवि बीहसि, अणंतदुक्खे भवंमि पाविहिसि । जम्हा अणेगजीवा, दुक्खे संताविया तुमए ॥२॥ एवं संवेगनिर्वेदालिङ्गितात्मनो यान्ति वासराः पुण्यभासुराः ॥ अन्यदा सुखसुप्तस्य, भूपतेः काऽपि देवता । निशीथेऽजनि प्रत्यक्षा, श्यामाङ्गा क्रूररूपभृत् ।।१॥ भूपपृष्टाऽवदत्साऽपि, लूताधिष्ठात्रीदेवता । त्वदङ्गे संप्रवेक्ष्यामि, पूर्वशापात्तवान्वये ।। २।। गतायामथ तस्यां स, चिन्तार्तोऽभून्नृपः प्रगे । सूरिपृष्टोऽवदत्सर्वं, तमूचे सूरिरप्यथ ॥३॥ भावी भावो भवत्येव, नान्यथा सोऽमरैरपि । पूर्व कामलदेव्या यत्, शपितो मूलभूपतिः ।। ४ ॥ यतः
अवश्यंभाविनो भावाः, भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य, महाहिशयनं हरेः ।। १ ।। पातालमाविशतु यातु सुरेन्द्रलोक-मारोहतू क्षितिधराधिपति सुमेरुम् ।
मन्त्रौषधैः प्रहरणैश्च करोतु रक्षां, यद्भावि तद्भवति नात्र विचारहेतुः ॥ २ ॥ परं राजन् ! पुण्यं कुरु । यतः
॥२१९।।

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238