Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
- लङ्कृतस्य विचित्रचित्रीयितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्द्धारोपितविजयवैजयन्तीनिबद्धकिङ्किमारपालाणीरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्ब-प्रबन्धः ।
रुमहिम्नो निरन्तरतालारसहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्र कुलाङ्गनाचमत्कारितभव्यलोकस्याभिनीयमाननाटकको।१८२॥ टिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रति
ग्रामं पदे पदे विधापनम् । अथ प्रचुरतरविभवविनियोगायोगे स्ववित्तानुसारेणापि जिनभवनं कारयितव्यमेव । यतः
पढम चिय जिणभवणं, नियदव्वनिओयणेण कायव्वं । जम्हा तं मूलाओ, सुहकिरियाओ पवत्तंति ।। १ ।। जिणबिम्बपइट्ठाओ, सुसाहुजिणधम्मदेसणाओ य । कल्लाणगाइअट्ठाहियाओ निच्चं च पूयाओ ।। २ ।। एयं संसारोदहिमज्झनिबुड्डाण तारणतंरडं । जं दसणस्स सुद्धी, एएण विणा न संभवइ ।। ३ ।। तेसि अन्नेसि चिय, जीवाणं विरमणं च पावाओ । पाणवहाईयाओ, संजायइ तत्थ परिसुद्ध ।। ४ ।। असति तु विभवे तृणकुटयादिरूपस्यापि । यदाह-- यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य ॥१॥ किं पुनरुपचितदृढघनशिलासमुद्धातघटितजिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः ॥ २॥
किं बहुना--तं नाणं तं च विन्नाणं, तं कलासु अ कोसलं । सा बुद्धी पोरिसं तं च, देवकज्जेण जं वए ॥ १॥ . राजादेस्तु विधापयतः प्रचुरतरभाण्डागारग्रामनगरमण्डलगोकुलादिप्रदानं जिनभवने । तथा जीर्णशीर्णानां चैत्यानां ।
HEI

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238