Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 208
________________ प्रबन्धः । राजानमनुपानत्पादचारिणं दृष्ट्वा गुरुराह-निरुपानत्पादचारात्तव क्लेशो महीपते !। आद्रियस्व तदश्वादि, धत्स्व मारपालाश वोपनही पदोः ॥ १॥ ततो व्यजिज्ञपत् क्ष्मापो, दौस्थ्ये प्राग् पारवश्यतः। पादाभ्यां न कियभ्रान्तं, परं तद्वयर्थतां गतम् ॥२॥ अयं तु तीर्थहेतुत्वात्पादचारोऽतिसार्थकः । येनानन्तभवभ्रान्तिर्मम प्रभ्रंशतेऽभितः ।। ३॥ एवं युक्त्या गुरो।२०२।। भक्त्वा, वाहनग्राहणाग्रहम् । अभिग्रही च राजर्षिस्तथैव प्रास्थिताध्वनि ॥ ४ ॥ दृष्ट्वा राजगुरुं राजराजं च पादचारिणम् । तयोर्भक्तिकृतेऽन्येऽपि, पद्भ्यां चेलुर्मुनीन्द्रवत् ।। ५ ॥ भूयिष्ठत्वेन सङ्घोऽयं, मा स्म दूयिष्ट वर्त्मनि । इति चक्रे प्रयाणानि, पञ्चक्रोशानि सोऽन्वहम् ॥ ६॥ स्थाने स्थाने प्रभावना । जिने जिने हेमछत्रचामरादिदानम् । प्रतिप्रासादं स्वर्णरूप्यमुक्ताफलप्रवालपट्टकूलादिध्वजारोपाः । सर्वत्र सर्वेषामनिवारितभोजनानि । संमुखागतानेकनपव्यवहारिश्रीसङ्घपरिधापनानि । प्रतिदिनं द्वासप्ततिसामन्तादिश्रीसङ्घमेलनपूर्वकस्नात्रोत्सवः । प्रतिग्रामनगरादिसार्मिकवात्सल्यानि भोजनाच्छादनप्रच्छन्नद्रविणप्रदानादिभिः । प्रतिदिनं भोजनावसरे सीदतः श्रावकलोकान् भोजयित्वा दयादानश्रेयोर्थं बुभुक्षितजनभोजनदानपटहवादनम् । त्रिकालजिनपूजासामायिकप्रतिक्रमणपर्वपौषधादिसर्वक्रियाकलापसत्यापनम् । याचकजनवाञ्छितसिद्धिः । एवं लोकोत्तरकरणीयपरम्पराभिः पथि जगजनमनांसि विस्मयश्रीजैनधर्माभ्युदयरसमयानि विदधानः सावधानवृत्तिर्धन्धूकपुरे श्रीहेमसूरिजन्मस्थाने पुराकाPM रितसप्तदशहस्तप्रमाणझोलिकाविहारे कृतस्नात्रध्वजारोपादिकृत्यः क्रमेण वलभीपुरीपरिसरे प्राप ।। स्थाप ईर्ष्यालुरित्यद्री, PA विद्यते तस्य गोचरे । गुरुस्तदन्तरे स्थित्वा, प्रातरावश्यक व्यधात् ॥ १॥ धर्मध्यानपरं तत्र, वीक्ष्य तं सूरिशेखरम् । XXXXXXXXXXXXXXXXXXXXXXXXXX ||२०२।।

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238